________________ प्रथमोऽध्यायः द्वितीयः पादः 31 ..(44) डार्वा नञोऽसौ / [1 / 2 / 4 / 11 / ] अनञः परस्य अवर्णो नोन्, नालक्षितोऽन्तार्थं, स्यादसौ सुपि / अर्वन्तौ / अर्वता / अर्वद्भ्याम् / अर्वत्सु / अनञः किम् ? अनर्वाणौ / असौ किम् ? अर्वाः / (45) सस्यत् / [1 / 2 / 4 / 12 / ] सो यस्य असत् वक्षिडादेशस्य सस्य यो यादेशः सोऽसत् / तस्य शास्त्रं शास्त्रान्तरे कर्तव्येऽसदिव / नमः / ख्यात्रे / पुंख्यानम् / स्कसिणाः न स्युर्यासिद्धेः असदा सुविधेः / (46) ऐकपद्ये पुनः परे णी / [1 / 2 / 4 / 13 / ] रेफषकारऋवर्णात् परो नो णी ईदित् स्यात् / एकपदमेवैकपद्यं, तस्मिन् कार्यनिमित्ते वर्तते / परे इति णीशास्त्रं च असद् इतः परे शास्त्रे / एवं सर्वत्र / चतुर्णाम् / पुष्णाति / कर्तृणाम् / अनोते पीतो नरान् / कुर्वन् वाऽऽस्ते / द्वित्वात् सिद्धेः / ऐकपद्ये किम् ? धर्मनासिकः / (47) आदिपदाद् अयूनां वाऽन्ते / [1 / 2 / 4 / 14 / ] पूर्वपदस्था युः परस्योत्तरपदस्यान्ते समीपे वा अयुवादे! णी स्याद् वा / व्रीहिपायिणौ / व्रीहिवायेण / माषवापिणौ / माषाणां वापोऽस्यास्तीति / माषवापिणी / पक्षे न एव अयूनाम् / अत्र गाथा षट्पदी - युवघ्नपक्वाऽहननाचुटुस्तुलान्तरे निवासाऽग्निनिवेशनर्तनम् / अनूपनन्दी नगरं च नन्दनं नृतेर्यङि क्षुभ्तृपि नो नु युर्नमेः / आचार्यखानौ गहनं च षः पदे // 1 // - अयूनां किम् ? आर्ययूना / क्षत्रिययूना / घ्ना / वृत्रघ्ना / वृत्रघ्नः / परिपक्वानि / परिपक्वेन। पर्यहनि / आदिपदात् प्राप्ते / अनाङ् / आड्वजितं पदं शकारचवर्ग[टवर्ग]सकारतवर्गलकाराश्च / एभिरन्तरे व्यवधाने नो णी न स्यात् / माषकुम्भस्य वापेन माषकुम्भवापेन / चतुरङ्गयोगेन / रशना / अर्चनम् / अर्जनम् / कारकटुवि / दार्थेन / कर्मण्येन / रसना / रसेन / नर्तनम् / आराधनम् / विरलेन / एभिः किम् ? करेण / अर्केण / दर्भेण / बृंहणम् / उरष्केण / अनाङ् किम् ? पर्याणद्धम् / एकपद इति प्राप्ते / इतः प्रायः आदिपदान्नाम्नि प्राप्ते / परिनिवासः / पर्यग्निः / परिनिवेशः / परिनर्तनम् / दर्भानूपः हरेः / [दर्भानूपम् / ] नृप्नोति / हरिनन्दी / नृतेर्यङ् i / नरीनृत्यते / क्षुभ्तृपिद्भ्यां परस्य नुः श्नोः / क्षुभ्नोति / तृप्नोति / [तृप्तुतः / तृप्नुवन्ति / ] एक पदे प्राप्ते / युर्नमेः / युप्रत्ययान्तणमेरित्यर्थः / नृनमनम् / नाम्नि / आचार्यात् ख आन् / आचार्यभागीनः / आचार्यानी / परिगहनम् / षः पदे / पदे यः ष् ततो न नी णी / निष्पानम् / सर्पिष्पानम् / षः किम् ? निर्याणम् / पदे किम् ? सुसर्पिष्केण / . (48) तथैकाच्सकु / [1 / 2 / 4 / 15 / ] तथाऽत्यनन्तरोक्तो णी स्यान्नित्यं तच्चेत् पर एकाच् स्यात् सकु कवर्गवद् वा / एकाच् / क्षीरपेण / वृत्रहणौ / सकु / माषकुंभवापेण / चतुरङ्गयोगेण। मातृभोगीणः / आर्द्रगोमयेण / गर्गाणां भगो अस्य अस्तीति गर्गभगिणी / अघ्ननां किम् ? वृत्रघ्ना / अन्ते किम् ? गर्गाणां भगिनी गर्गभगिनी / (49) नाम्नि नाना / [1 / 2 / 4 / 16 / ] संज्ञायां बहुलम् / पूर्वपदस्थात् र्युः परपदस्थो नो