________________ 38 पञ्चग्रन्थी व्याकरणम् एति किम् ? हरिसिंहः / इणः किम् ? विष्वक्सेनः / नाम्नि किम् ? पृथुसेनो राजा / भाद् वेतः / नक्षत्रादितः परः सः षः एति नाम्नि / भरणिषेणः / इतः किम् ? पुनर्वसुषेणः / शतभिषक्सेनः / तित् किम् / रोहिणीषणः / नाम्नि किम् ? भरणिसेनः / वेः स्त्रः / विस्तृणां ते म्नि / विष्टरो वृक्ष, आसनं च / विष्टारपङ्क्तिः / नाम्नि किम् ? विस्तरो वाक्यस्य / अग्न्यादेः स्तोमः / अग्निष्टोमः / ज्योतिष्टोमः / आयुःष्टोमः / नाम्नि किम् ? अग्निस्तोमः / परेऽसत्वाद् अग्निष्टतम् आचष्टे / णि क्विप् / सादेर्लक् / अग्नित् // 10 // दीर्घोऽसुपो र्वीग्घलिभूत्पदान्ते द्यूष्णिक्परिवान्दधृको निमो वः / स्रड्ड्वड्वसोर्जश्ष्षिरुपां वशेकाष्टषिस्ध्वि वा भष्टुरुषोऽष्ठिमारौ // 12 // 11 // (93) दीर्घोऽसुपो ग्घिलि भूत् / [1 / 2 / 11 / 1 / ] भूत् भ्वादि, इग्दीर्घः स्याद् रि वि चाऽसुपो विहिते हलि परे परतः / दीव्यति / मूर्छ / वि किम् ? बुध्यते / इतित् किम् ? स्मर्यते / हलि किम् ? गिरौ / सुपो, गिर्यति / पदान्तेर्द्विपदान्ते च भूधिग्दीर्घ स्यात् / गी: / धूः ... गीया॑म् / आशीरर्थः / पीपींभिः / भूत् किम् ? अग्निः / (94) पदान्त / [ 1 / 2 / 11 / 2 / ] आ सन्विधेः (95) यूष्णिक्परिवान्दधृकः / [1 / 2 / 11 / 3 / ] निपात्यन्ते / दिव् / उष्णिह् / परिव्राज् / धृष्उत्स्निहेरुदस्तलोपषत्वं धृषद्दित्वं निपात्यन्तेऽते तु उकुटुकुत्वम् / सुधु / धुभ्याम् / उष्णिग् / परिवाट / दधृग् / पदान्ते किम् ? दिवौ / (96) नि मः / [1 / 2 / 11 / 4 / ] भूद् मः पदान्तस्थो नि स्यात् / प्रशान् / प्रशान्भ्याम् / प्रदान् / प्रदान्भ्याम् / प्रतान् / प्रतान्भ्याम् भूत् किम् ? प्रणमौ / (97) वः / [1 / 2 / 11 / 5 / ] रुः सजुः सोः इत्यादिना यो रुः, सुप्य इत्यादिना यश्च अः विसर्जनीयः / अ उश्च अश्च वः / सोऽत्र द्रष्टव्यः येनेतस्नस्थास्त्रमसत्परे पूर्वं षाद्यस्मिन् / पिपठीरित्यादि / (98) सड्ढ्वड्वसोर्जश् / [1 / 2 / 11 / 6 / ] स्रट् / ध्वट् / वस् / एषामन्तः पदान्तस्थो जश् स्यात् / उखास्रट् / उखास्रड्भ्याम् / पर्णध्वट् / पर्णध्वड्भ्याम् / विद्वद् / विद्वद्भ्याम् / पदान्तः किम् ? उखास्रसौ / अन्तः किम् ? विद्वान् / (99) ष्षिझषाम् / [1 / 2 / 117 / ] षपदान्तः षि चादेशः झए / एषामन्तो जश् स्यात् / ष / षड् / षड्भ्याम् / षि / मूलतृड् / मूलतृड्भ्याम् / आदेशजः षिरेव किम् ? चतुष्टयम् / कष्टीकते / रुप् / अज् / तृब्ज्च् / सुमुग् / सुमुक् / मधुलिट् / विद्युत् / / (100) वशेकाष्टषिस्ध्वि वा भष् / [1 / 2 / 11 / 8 / ] भूदेकाज्वश् भष् स्याज्झषि पदान्ते परे, सि ध्वे च / वा समुच्चये / अर्थभुद् / अर्थभुत् / पर्ण[घुटम्] पर्णघुड्भ्याम् / गर्दभमाचष्टे गर्धप् / गर्धभ् / सिध्वच् / भोत्स्यते / अभुध्वम् / रु षि किम् ? सुगण् / वश् किम् ? कुट् / पदान्तः किम् ? अर्थधुकौ /