________________ .78 श्री हंसविजयविरचिते प्रवहणान्यापूर्य प्रस्थितो रत्नद्वीपं, सम्प्राप्तश्च कुशलेन, प्रसादितो विविधोपायनैस्तन्नृपो नीलकण्ठनामा, प्रारब्धं चाऽनेकधा-रत्न-वाणिज्यम् / . हरिकुमारेण धनशेखरस्य मैत्री __ अथैकदा काचिदर्धजरती मद्गृहमागत्य मां प्राह- "अहो धनशेखर ! आनन्दपुरे केशरिनृपस्य जयसुन्दरी-कमलसुन्दरी नाम्न्यौ द्वे राज्यौ अभवतां, राज्यलोलुपोऽसौ नृपः प्राह- "पुत्रो मां हत्वा मा ग्रहीन्मे राज्यमिति" कुबुद्धया जात-मात्रानेव पुत्रान् निहन्ति / एकदाऽऽपन्नसत्त्वा कमलसुन्दरी सुतव्यापादनभीत्या मां वसुमती प्रियसखीं सहादाय निशीथे प्रणष्टा दैवाद् विषमाटव्यां पतिता / तत्र श्वापदादि-ब्रुत्कारान् श्रुत्वा भीतया प्रसूतस्तदैव तया पुत्रः / पुत्रप्रसवानन्तरमेव च मृता, ततो दुःखिताऽहं यथाकथंचित् रत्नकरण्डमिव तं सुतमादाय क्रमेणाऽत्राऽऽगत्य कमलसुन्दर्या भ्रातुर्नीलकण्ठनृपस्य पुरः कथितो व्यतिकरः, अर्पितश्च पुत्रः / ___ अथ स्वसृ-मरण-श्रवण-दुःखितो नृपः पुनः देवकुमारोपमं भागिनेयं दृष्ट्वा प्रमुदितो हरिरिति नाम कृत्वा तं प्राणाधिक-यत्नेनाऽवर्द्धयत्, साम्प्रतं तारुण्यप्राप्तोऽसौ हरिकुमारस्त्वामानन्दपुरादागतं श्रुत्वा स्वपुरवास्तव्यं मत्वाऽतिप्रणयेन त्वदाकारणाय मां प्रैषीत्, तदेहि त्वरितमिति," तदाकर्ण्य गतोऽहं कुमारसमीपे, तेन बहुमान-पूर्वकं पृष्टाः स्वपुरवातॊः / कथितश्च मया तत्रत्य वृत्तान्तः / इत्थं नित्य-परिचयाजाता मे कुमारेण सह मैत्री, सोऽपि मां बन्धुत्वेन पश्यति, अथाऽन्यदा मधुसमये मदन्वितो हरिकुमारः प्रिय-वयस्य-गण-परिवृतः क्रीडार्थमुद्यानं प्राप्तः। तत्र यावद् वयं नाना-विनोदावलोकनपराः स्मस्तावदेका कृद्धा तापसी तत्राऽऽयाता साऽऽशीर्दानपूर्वकं चित्र-लिखित-स्त्रीरूपं कुमारस्य हस्ते दत्त्वा क्वापि गता, तच्चित्र-रूपं विलोकयन् कुमारोऽपि चित्रलिखित इव बभूव / तदा मन्मथ-मित्रेणोक्तं"कुमार ! किमेवमेकतानेन भाव्यते ? कुमारस्त्वाकारगोपनं विधाय तदाक्षिप्तचित्तो ऽप्याकूतमनाविष्कुर्वन् अहो ! चित्रकारस्य चातुर्यमित्यादि प्रत्युत्तरं ददौ / ततो मन्मथपद्मकेशर-विभ्रम-कपोलादिमित्रैर्नाना-प्रहेलिका-समस्यादिवारिसै-र्यथाकथञ्चित् तद्विस्मृतिं नीतोऽसौ पुनर्मुहूर्तान्तरे चक्रवाकी विलोक्य स्मृत-तदुरोजसौन्दर्य: क्वापि रतिमनाप्नुवन् सर्वान् सखीन् विसृज्य मां गृहीत्वा एकस्मिन् लता-गृहे सुष्वाप / तत्राऽपि तप्त-सिकता-पतित-मीन-इव विलुठन् मत्कृतशीतोपचारैरपि न क्षणं रतिं लेभे / अथ मन्मथादयोऽपि विनोदात् निलीय स्थिता अभूवन् / तैरपि दृष्टतद्-व्यतिकरैस्तत्रागत्य