________________ 79 उपमितिभवप्रपंचाकथाद्धारे अधिकार-४ सोपहासं कुमार ! श्यामा-सेवनेन ते ताप: शाम्यतीत्यादि-चिकित्सोपदेशाऽपदेशेन भूयान् विनोदश्चक्रे / ततः कुमारः सर्वमित्रसमक्षं स्वाभिप्रायमाविष्कृत्य तां तापसी विलोकयितुं मां प्रेषयामास / अथ यावदहं पुराभिमुखं यामि, तावत् मिलितार्द्धमार्गे सा तापसी / मया प्रणम्य चित्रस्वरूपं पृष्टा सा प्राह- "अद्याऽहं भिक्षार्थं नीलकण्ठनृपौकसि गताऽभूवम्, तत्र शिखरिणीं राज्ञी चिन्तार्ती वीक्ष्य पृष्टं मया चिन्ताकारणं, तदा तयोक्तंप्राणप्रिया मे मयूरमञ्जरी सुताऽद्य-ग्रहग्रस्तेव हस्तन्यस्तमुखाऽन्यग्दृष्टिर्निःश्वासान् सृजन्ती व्यग्रीभूय स्थिताऽस्तीति चिन्ता स्मि / तदा मया लग्नं विलोक्य भाषितं- यदेतस्या मनसि पुरुषचिन्ताऽस्तीत्याकर्ण्य मत्पादौ प्रणम्य राज्यूचे- "भगवति ! सत्यमेतद् यतो मयूरमञ्जर्याः प्रियसख्या लीलावत्या उक्तमभूत्-यद् मित्रवृन्दवृतो हरिकुमारोऽनया यत्प्रभृति दृष्टोऽस्ति, तत्प्रभृत्येवं म्लानवदना विलक्षीभूय स्थिताऽस्ति इति / " ततो राज्याऽभ्यर्थिताऽहं मयूरमञ्जर्याः चित्रपटं कृत्वा कुमारस्य दत्त्वाऽगाम् / ___अथाऽगृहीतसङ्केते ! तापस्या मुखात् तवृत्तान्तं श्रुत्वा प्रहृष्टोऽहं कुमारान्तिकमागत्योचिवान् तदश्रद्दधानोऽपि कुमरः शपथादिभिर्मया प्रत्यायितः / किञ्चित् स्वस्थीभूय मित्रगणवृतो गृहं जगाम / अथ राझ्या सुताया अभिलाषो नृपाय ज्ञापितः, नृपेणाऽपि समुचितोऽनयोर्योग इति कृत्वा महामहैर्मयूरमञ्जरी हरिकुमारेणोद्वाहिता / ततो हरिकुमारः पुण्यप्राग्भारोद्भवं मयूरमञ्जर्याः सङ्गं लब्ध्वा नानाविलासान् विलसन्नपि क्षणमात्रं मां न व्यस्मरत् / अहं तु सागर-कुमित्रवशात् अहोऽत्राऽपि वाणिज्यान्तरायकरः कुमारोऽयं मे कुतोऽप्युपस्थितः / अस्य गोष्ठी-वैयग्ग्रेण न किञ्चित् क्रय-विक्रयादि कर्तुं प्रभवामीत्येवं चिन्तयन् शनैः शनैः तदासक्तिं मुक्त्वा स्वकार्यासक्तोऽभवम् / अथाऽहं रत्नान्युपार्योपार्व्य हृष्यामि, न च कञ्चिद् विश्वसिमि, न च निश्यपि सुखं निद्रामि / इत्थं मेलिता मया नानाजातीयानां रत्नानां समूहाः / यौवन-मैथुनसङ्गेन धनशेखरस्य कामप्रवृत्तयः . अत्राऽन्तरे कर्मपरिणामनृपपल्या कालपरीणत्याऽऽदिष्टौ यौवन-मैथुननामानौ द्वौ भटौ मदन्तिकमागतौ, मयाऽपि सत्कारपूर्वकं यौवनाऽऽख्यो देहगेहे निवासितोऽन्यश्च हृदि वासितः। अथ यौवन-मित्रानु भावादहं वक्रं विलोकयामि / मुख-नेत्रविकाररूपगर्वादीन् करोमि, मैथुनवशाच्च स्त्रीशत-रतेनाऽपि न तुष्यामि / तथा चक्षुरिन्द्रियपारवश्याद् यां यां सुरूपस्त्रियं पश्यामि, तां तां रिरंसुर्नानाचेष्टा: करोमि / यद्यपि सागरो 1. स्वरूप- VL1 //