________________ 72 श्री हंसविजयविरचिते ___ अथ सद्बोध-सम्यग्दर्शनौ मिथो मन्त्रयित्वा नृपं प्रोचतुः- "स्वामिन् ! नृपाणां तावत् स्वाम्यमात्य-सुहृत्-कोश-राष्ट्र-दुर्ग-बलानीति सप्तराज्याङ्गानि तथा प्रभुत्वोत्साहमन्त्रजास्तिस्रश्च शक्तयः, एतेषां बलाऽबलं विचिन्त्य तदनु विजिगीषुणा नृपेण सामदाम-भेद-दण्डानामन्यतमेनोचितोपायेन यथासम्भवं सन्धि-विग्रह-याना-ऽऽसनद्वेधाऽऽश्रय-रूपाणां षण्णामन्यतमे प्रवर्त्तितव्यमिति नीति-स्थितिस्ततो न युक्तं समयमन्तरा सहसैवाभिषेणनं, ततः सन्धिकरणार्थं प्रेष्यते कश्चित् तावद् दूत इति / " ... चारित्रनृपदूतस्य मोहसमीपे गमनम् . अथ राज्ञा तथेति प्रतिश्रुत्य सत्यनामा दूतः प्रहितो मोहं प्रति, प्राप्तः क्रमेण स चित्तवृत्त्यटव्यां प्रमत्तता-तटिनी-तटस्थमोहनृपस्कन्धावारं, तत्र चित्तव्याक्षेपमण्डपस्थं ‘सपर्षदं मोहमहीपालं प्रतिस्फुटं स्वस्वाम्यादिष्टमवदत्- "अहो मोहराज ! चित्तवृत्त्यटवीयं तु तावत् न युष्मदीया न चाऽस्मदीया / अस्यास्तु स्वामी भवजन्तुरेव / वयं यूयं कर्म-परिणामादयश्च सर्वेऽपि भवजन्तोरेव सेवकाः स्म, एवं सत्यपि युष्माभिस्तं भवजन्तुमकिञ्चित्करं कृत्वा स्वयं तद्-राज्यं जगृहे, तथापि वयं किमपि न ब्रूमः तदुपर्यपि यद्-यूयमुदीर्योदीर्य-विग्रहं कुरुथ, तन्न युक्तं कुरुथ / " इत्यादि-सत्योक्तान्याकर्ण्य मोहराज-पत्नी महामूढताऽतिक्रुद्धा- "रेरे दूताधम ! मोहराजादयोऽपि भवजन्तोः सेवका: किमेवमसमञ्जसं प्रलपसि'' इत्याद्याक्रोशवाक्यानि व्याजहार / तावत् सर्वेऽपि मोहराजभटा भ्रुवं नर्तयन्तः कोपाध्माता: समुत्थिताः सत्यं प्रहर्तुम् / ____अथाऽसौ भयवेपमानतनुः कथञ्चित् ततः पलाय्य वेगादागतश्चारित्रधर्मनृपसमीपम् आह च "स्वामिन् ! मदोद्रिक्तोऽसौ महामोहमहीपालस्त्वां न मन्यते तृणायाऽपीत्यादि।" अथ तच्छ्रुत्वा क्रुद्धश्चारित्रधर्मो रणभम्भां वादयित्वा सर्वं स्वसैन्यमादाय प्रस्थितः सङ्ग्रामार्थम्, इतश्च मोहराजोऽप्युत्कट-कटक-परिवृतोऽभिमुखमागत्य स्थितः / अथोभयोः सैन्ययो-श्चित्तवृत्त्यटव्यां सङ्ग्रामः प्रावर्त्तत, प्राहरंश्चाऽन्योऽन्यं नानाप्रहरणैर्भटाः / इत्थं महातुमुले जायमाने दुष्टाभिप्रायादिकैर्मोहसैनिकैः शुभाभिप्रायाद्याचारित्रधर्मभटाः प्रहारशिथिलाङ्गा अक्रियन्त, निर्मथितं च समस्तमपि तत्सैन्यम् / अथ स्वसैन्य-पराजयं विलोक्य चारित्रधर्मनृपः ससैन्योऽपसृत्य पुनर्जेनपुरं प्रविष्टः / मोहराजोऽपि जितकाशी सन् स्वस्कन्धावारेण तं समन्ततो वेष्टयित्वा स्थितोऽस्तीत्येवं समस्तमपि चारित्र-मोहराजयोः सैन्यस्वरूपं दर्शितं मे मार्गानुसारितया / तद्विलोक्य प्रत्यावृत्तः क्रमेणाऽत्रा-ऽऽगतोऽहं, मार्गानुसारिताऽपि पृष्ठे समायातीति /