________________ 3 उपमितिभवप्रपंचाकथाद्धारे अधिकार-३ - धवल-विमलयोः दीक्षा तत्र घ्राणोऽयं विषयाभिलाष-मन्त्रिसुत इति मे मार्गानुसारितया दर्शितोऽभूत्, तद् वर्णोऽयं सर्वथेति विचारवाक्याद् यावद् बुधो घ्राणसङ्गत्यागोपायं विचिन्तयति, तावन्मार्गानुसारिताऽपि तत्राऽऽगता, तन्मुखादपि तथैव घ्राणोत्पत्तिं श्रुत्वा बुधोऽत्यन्तं तत्त्यागोत्सुकोऽभवत् / अथ मन्दस्तु भुजङ्गता नुन्नो यत्र तत्र सुगन्धि-लोलुपो भ्रमन्नेकदा देवराजपल्या लीलावत्या गृहे गतः / अथ तत्र लीलावत्याः पुत्रस्य मारणार्थं तत्-सपल्या एका विषमिश्रिता गन्धपुटी देहल्यां मुक्ताऽस्ति / तत्राऽऽयातेन मन्देन भुजङ्गतापारवश्यात् सा गन्धपुटी आघ्राता, तद्-विषावेशात् मृतोऽसौ क्षणमात्रात् / इत्थं मन्दविषयं घ्राणसङ्ग-दुर्विपाकं वीक्ष्यं विरक्तो बुधो निजसाधुता-शुभविपाकौ माता-पितरौ धिषणां प्रियां विचारं सुतं मार्गानुसारितां श्यालिकां च इत्थं समग्रमपि कुटुम्बं सार्थे गृहीत्वा सद्गुरुपान्ते दीक्षामग्रहीत्, जातोऽल्पकालेन सर्वसिद्धान्तपारगः / दत्तं च गुरुभिः सूरिपदं, ततः शृणु धवलमहिपाल ! सोऽहं बुधसूरिरिदं च मे व्रतादान कारणम् / अथैवं देशनामाकर्ण्य परमवैराग्य-संवेगाधिष्ठितो नृपो विमलं प्रत्याह- "वत्स ! गृह्यतां राज्यभारः संयमग्रहणेन भवेम वयं भवमुक्ता इत्याकर्ण्य विमलः प्राह- "तात ! न मे धर्म-प्रत्यूहभूतेन राज्येन किमपि प्रयोजनं, न चैवं दुरित-निदान-राज्यदानेन भवति भवतोऽपि पुत्र-वात्सल्यम्, अहं तु प्रागेव व्रतायोत्कण्ठितोऽस्मि' इति श्रुत्वा विमलभ्रात्रे कमलकुमाराय राज्यं दत्त्वा पुरान्तश्चैत्येऽष्वष्टाहिका महोत्सवं विधाय श्रीबुधाचार्योपान्ते राज्ञा विमलकुमारेण च अन्यैरपि बहुभिः पौरैर्दीक्षा जगृहे / * * अथाऽगृहीतसङ्केते ! बुधसूरिदेशनामेवं श्रुत्वाऽपि माया-स्तेयवशात् न किञ्चिदपि प्रबुद्धोऽहम्, प्रत्युत विमलस्य व्रतग्रहणावसरे विमलो मां बलात्कारेण दीक्षां ग्राहयिष्यतीति विचिन्त्य ततः पलायितस्तदनु विमलेन सेवकैर्गवेषितोऽपि यदाऽहं क्वापि न लब्धस्तदा तेन गुरुं प्रति पृष्टं- "स्वामिन् ! भवद्देशनया प्रबुद्धाः सर्वेऽप्येते जना यथाशक्ति धर्मोद्यममकार्षुः, परं मम मित्रं वामदेवस्तु श्रुत्वाऽपि न किञ्चित् प्राबुधत्, साम्प्रतं तु क्वापि गतो दृश्यते, किं तत्र कारणमिति ?" सूरिः प्राह- शृणु महाभाग ! यावदस्य पार्श्वे माया-स्तेयाभिधे दुष्टमित्रे स्त: तावत् न प्राप्नोत्ययं धर्मबोधम् / साम्प्रतमपि मा कारयतु बलात् मां संयमिनमिति पलायितोऽस्तीति, पुनर्विमलेन दुष्टमित्रत्यागोपाये पृष्टे सूरिरवक्-“निर्मलचित्तपुरेशस्य शिष्टाभिप्रायस्य शुद्धता-पापभीरुता नाम्न्यौ द्वे राज्यौ स्तः, तयोः क्रमेण सरलताऽस्तेयताऽभिधे द्वे कन्ये यदाऽयं परिणेष्यति, तदा मायास्तेययोः सङ्गं त्यक्ष्यति इति श्रुत्वा मामयोग्यं विज्ञाय विमल उपेक्षते स्म /