________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार-३ . 71 निवसति / अहं तु तत्-परिचारिका भुजङ्गता नाम्नी भवदादेशादेवाऽत्र निवसामि / ततश्चिरन्तनस्नेहं संस्मार्य सम्भाव्यतां तन्मित्रम् अहं चेति / तद्वाक्यात् मुदितो मन्दो घ्राणं भुजङ्गतां च समाश्वास्य तयोरतिस्नेहं दधौ, बुधस्तु मध्यस्थभावेन घ्राणमित्रमपालयन् भुजङ्गतां तु अधम-स्त्रीयं न मे सङ्गतिकरणाहेति ध्यात्वा निरकासयत् / ___ अथ मन्दो भुजङ्गता-प्रेरितः कर्पूरकेसर-सुगन्धि-पुष्पादि-सुरभिद्रव्यैर्घाणं पुष्णाति, किमपि विगन्ध-वस्तु दृष्ट्वा घ्राणमाच्छादयति जुगुप्सते च / बुधस्तु सुगन्धि-द्रव्येषु विगन्धिद्रव्येषु च समचित्त एव प्रवर्त्तते / एवं गतानि कतिचिद् दिनानि / अथ बुधस्य पुत्रो धिषणाङ्गजन्मा विचारनामा पूर्वं कौतुकार्थी देशदिदृक्षायै गतोऽभूत्, स कियद्भिर्दिनैः पुनरायातो बुधसमीपे घ्राणमवलोक्य प्राह- "तात.! घ्राणोऽयं दुष्टमित्रं, न सङ्गतिकरणार्हः। एतस्योत्पत्तिं सम्यगहं जानामि, यतोऽहमितो भ्रमन् प्राप्तो भवचक्रपुरं, तत्र यावदहं राजमार्ग स्थितोऽस्मि तावदेका स्त्री मां दृष्ट्वा सहसैवाऽऽनन्दिता सती मामाश्रुिष्य बाष्पप्लुत-नेत्राऽवोचत्- "अहो वत्स ! अहं मार्गानुसारिताख्या त्वन्मातुर्धिषणायाः प्रियसखी, त्वं तु लघुस्ततो मां न लक्षयसि, अहं ते मातृष्वसा त्वं मम भागिनेय इत्यतस्तिष्ठ त्वं वत्स ! सुखेन मत्पार्श्वे / दर्शयामि ते नानाविध-भवचक्रकौतुकानि, युक्तमेव घिषणाङ्गजस्य ते विविध-देशचरित्रावलोक-चातुर्यमिति" श्रुत्वा प्रमुदितोऽहं स्थित-स्तदुपान्ते। संयम-मोहयुद्धम् / अथ तया दर्शितं मे विविधाश्चर्यमयं सम्पूर्णं भवचक्रपुरं, ततो विवेकपर्वतं वीक्षितुं गच्छद्भयामावाभ्यां तदुपत्यकायां दृष्टः कश्चिद् भटो गाढप्रहारजर्जराङ्गः कतिचित् मनुष्यैः स्कन्धे कृत्वा नीयमानो बहुमनुष्य-वेष्टितश्च / तं दृष्ट्वा मया पृष्टं- "मातः ! कोऽयं?" तदा मार्गानुसारितयोक्तं- "वत्स ! चारित्रधर्म-ज्येष्ठ-पुत्रस्य यतिधर्म-कुमारस्य भटोऽयं संयमनामा क्रीडा) बहिर्निर्गतो मोहसैनिकर्मिथ्यात्वाद्यैर्घातितो निजभटैहं नीयते, वयमपि यामस्तत्र विलोकयामः कौतुकमिति" कृत्वा गतावावां विवेकशैलोपरिस्थमप्रमत्तपुरं दृष्टस्तत्र चित्तसमाधानमण्डपे चारित्रधर्मनृपः सपरिवारः, उपलक्षिताश्चेमे प्रत्येकं नामग्राहं सभासदो मार्गानुसारितया तावत् संयमोऽपि तदवस्थः समानीय दर्शितो नृपाय / कथितं च तैर्मोहसैनिकानां दर्पोत्कटत्वम्, अथ तदाकर्ण्य यावत् नृपः सभां विलोकते, तावदुदायुधाः सन्तोष-दया-क्षमा-ब्रह्मचर्यादयो भटाः समुत्थाय हुङ्कारान् मुञ्चन्तोऽब्रुवन्"आदिशतु देवोऽस्मान् मोहमभिषेणयितुं, क्षिपामो वयं क्षणमात्रात् समस्तमपि मोहसैन्यं, ततो न युज्यतेऽत्र विलम्बितुं, नोपेक्षितव्योऽयं प्रसर्पन् व्याधिरिव विपक्ष" इत्यादिशौर्यवाक्यानि तेषामाकर्ण्य नृपः सदोधाऽमात्याऽभिमुखं दृष्टिं दत्तवान् /