________________ श्री हंसविजयविरचिते तस्मिन् भाजने भग्ने पुनस्तथैव ते भ्रामयन्ति / इत्थं ते धूर्तास्तं बठरगुरुं बहुधा विनाटयन्ति, स्थाने स्थाने भिक्षयन्ति, स्वमठे स्वयं प्रवेशमपि नाऽऽप्नोति, स्वकुटुम्बमवसीदति, धूर्ताश्च सम्पदं विलसन्ति, लोका उपहसन्ति, तथाप्यसौ बठरगुरुः कार्मणवशीकृतो धूर्तानेव मित्रीयति, तत्कृता विडम्बना अपि सुखत्वेनाऽध्यवस्यति / एवं हे राजन् ! अत्राऽप्युपनयोऽयं, संसारोऽयं ग्रामः, आत्मस्वभावो ज्ञानादिरत्नपूर्णः शिवालयमठो, आत्मा सारगुरुः, कर्मरूप-धूर्तसङ्गेन मोहोन्मादादिकार्मणै र्विकलीभूत: स्वाभाविक-गुणरूप स्वकुटुम्बमुपेक्षते, मोहो धूर्त्ताधिपः आत्मस्वभाव-शिवालयं स्वायत्तीकुरुते / सद्गुरुरूपव्यवहारिभि-र्बोध्यमानोऽपि बोधमनाप्नुवन् आत्मैव बठरगुरुरित्युच्यते / अथ ते कर्मधूर्ताः नारक-तिर्यंङ्-नरा-ऽमरायू-रूपाणि चत्वारि भाजनानि दत्त्वा गतिचतुष्करूप-पाटकचतुष्टये विषयभिक्षां कारयन्ति / तत्र यातनाशतान्यनुभवन्नपि न कथञ्चिदप्युद्विजते / तदेवं राजन् ! सर्वेऽपि संसारिणो मोहोन्मादादिकार्मणपरवशाः संसारकष्टं जानन्तोऽप्यज्ञा इव तत्रैवाऽऽसज्जन्ति, ये केचनाऽपि लघुकर्माणो गुरूपदेशं सम्यगवबुध्य मोहादिधूर्तास्तिरस्कृत्य सहजकुटुम्बं पुष्यन्ति, ते स्वसम्पत्साम्राज्यकलिताः सुखिनो भवन्त्यपि'' इत्यादि-देशनां श्रुत्वा पुनर्नृपः प्राह- "भगवन् ! भवादृशा यत्र बोधं कर्तारस्तत्र बुध्यन्त्येव भव्यप्राणिनः, परं भवद्भिः कस्योपदेशेन केन हेतुना वा व्रतमाददे ? तत्कथनेनाऽस्मान् पावयन्तु भवन्त इति / " ," - बुधाचार्यस्य आत्मकथनम् सूरिः प्राह- "शृणु नृप ! पृथिवीतलनाम्नि पुरे शुभविपाको राजा, निजसाधुता तस्य राज्ञी, तयो-र्बुधनामा सुतः, सकलगुणपात्रम् / अथ शुभविपाकस्य भ्राता अशुभविपाक तस्याऽसाधुता राज्ञी, तयोर्मन्दनामा सुतोऽशेषदोषास्पदम् / इत्थं तौ द्वावपि पितृव्याऽऽत्मजौ भ्रातरौ बुध-मन्दौ क्रमेण प्रवर्धमानौ स्तः / अन्यदा बुधस्तु निर्मलमानसपुराधीश-शुभाभिप्राय-नृपकन्यां धिषणाभिधां परिणीतवान् / तया सह सुखमनुभवतस्तस्य विचारनामा पुत्रो जज्ञे / / घ्राणेन्द्रियकृता कदर्थना अथैकदा बुध-मन्दौ द्वौ बन्धू स्वक्षेत्रे ललाटनाम्नि पर्वते गतौ / तत्राऽपवरक-द्वययुतां नासिका-नाम्नी गुहां वीक्ष्य यावत् तद् गर्भे दृष्टिं कुरतस्तावद् दृष्टैका बालिका ताभ्यां, नामादि-पृष्टा सा प्रोवाच- "अहो ! सुपुरुषौ यदा युवां असंव्यवहारपुरात् निर्गत्यैकेन्द्रियपुरे कियत् कालमुषित्वा विकलेन्द्रियपुरे त्रीन्द्रियाख्य-पाटके समायातौ तदा कर्मपरिणामराजेन घ्राणनामा सहचरों युवयोः समर्पितो बभूव / स भवतोश्चिरन्तनसखाऽत्र गुहायां