________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार-३ ऽतृप्तत्वात् क्षुधिता एव, साधवस्तु बहिः क्षुत्क्षामा अपि शमामृताऽऽस्वादमुदिता नित्यं तृप्ता एव / संसारिणस्तारुण्यमदोद्धता अपि पण्डितवीर्योल्लास-समयं चरमपुद्गलपरावर्त्तलक्षणं स्वभावतारुण्यमनासादयन्तो ज्ञानादिरत्नत्रयोपार्जनविकला जीर्णाङ्गा एव। साधवस्तु बहिर्जराजीर्णा अपि प्राप्तस्वभाव-तारुण्यत्वात् तरुणा एव / संसारिणः सुलोचना अप्यतत्त्व-दर्शिनश्चिप्पटाक्षा एव / साधवस्तु गलन्नेत्रा अपि तत्त्वदर्शित्वात् सुलोचना एव / संसारिणो गृहे स्थिता अपि दुस्तरभवकान्तारादनिवृत्ताः सदा पर्यटनशीला. एवोच्यन्ते, साधवस्तु नित्यमुद्यतविहारिणोऽपि अप्रमत्तपुराश्रयणात् सदा सुखशीला एव। इत्थं समस्तान्यन्यान्यपि दारिद्र्यकार्शादिविशेषणानि सम्यग् विभाव्यमानानि संसारिजन्तुष्वेव सम्भवन्ति, न पुनर्लोकोत्तर-स्वभाव-साम्राज्यसुखमुदितेषु साधुषु / इत्यादि संसाराभिमुखाणां संसारविमुखाणां च स्वरूपं सूरि-मुखादाकर्ण्य नृपादयः प्रमुदिताः सूरिं प्रोचुः- "स्वामिन् ! सुष्ठु निरूपितं कुरूपत्व-सुरूपत्वादिस्वरूपमिति / " संसारस्य मठरूपता, मोहादिकृता बठरगुरुकदर्थना ___ पुनर्नृपः प्राह- "स्वामिन् ! यद्येवं संसार-स्वरूपमतिदारूणं तदेवं जानन्नपि जनः कथं तदासक्तिं न जहाति ?'' अथ सूरिः प्राह- "शृणु राजन् ! विशालनाम्नि ग्रामे एको नाना-धन-रत्न-खाद्यपूर्णः शिवालयोऽस्ति / तत्रैकः सारगुरुर्नाम मठाधिपतिर्वसति। सोऽनिशं तद्-ग्राम-वास्तव्यै त्तैः सह मिलति, स्वकुटुम्बं चोपेक्षते, एवं क्रमेण तैयूँत्तैः कार्मणप्रयोगेण वशीकृतोऽसौ, यथा ते नत्रयन्ति तथा नृत्यन्ति / सकल समृद्धिभृतोऽपि. तन्मठः स्वायत्तीकृत्यैकं ज्येष्ठधूर्तं तत्र नायकं कृत्वा सर्वे धूर्ताः स्वेच्छया तत्सम्पदं भुञ्जते। स सारगुरुस्तु मठमध्ये प्रवेशमपि न लभते / अथैवं दृष्ट्वा तत्पुरवास्तव्या व्यवहारिणः सारगुरुं बहुधा शिक्षयामासुः / “अहो ! स्वकुटुम्बं परित्यज्य किं धूर्तान् पुष्णासि ? एते च साक्षात् तव वैरिण्यस्त्वां बहुधा विडम्बयिष्यन्तीत्यादि / " तथाऽप्यसौ कार्मणनियन्त्रितो न किञ्चित् तद्वचः प्रतिपेदे / तदा तैर्धनिभिः सम्भूय गुणानुरूपं तस्य बठरगुरुरिति नाम चक्रे / अथ यथा यथा तें धूर्तास्तं बठरगुरुं नाना-प्रकारैर्नर्त्तयन्ति, तथा तथाऽसौ मोदते / तस्मिन् ग्रामे चत्वारः पाटकाः सन्ति / तत्र प्रथमे पाटके भग्नघटकपरं हस्ते दत्त्वा बठरगुरुं ते भिक्षयन्ति, ये च तत्रत्या लोकास्तेऽपि. धूर्ताणां सम्बन्धिनस्ततो यष्टि-मुष्ट्यादिभिस्तं विडम्बयन्ति / न च भैक्ष्यलवमपि वितरन्ति / एवं भग्ने घटकपरे पुनस्ते सरावं तद्-हस्ते दत्त्वा द्वितीये पादके भिक्षयन्ति / तत्रत्या अपि लोका आक्रोश-तर्जन-ताडनादिभिस्तं बठरगुरुं विडम्बयन्ति / पुनः सरावे भग्ने ताम्रभाजनं दत्त्वा तृतीये पाटके तं भिक्षयन्ति, तत्राऽसौ किञ्चिद् अधिकां भिक्षां लभते,