________________ श्री हंसविजयविरचिते हृतमिति निश्चित्य हा हा ! कथं जीविष्यति मे सखा वामदेव इति' महाचिन्तालॊ विमल: प्रत्यावृत्त्य यावद् मदन्तिकमागतस्तावदतिघोररूपेण वनदेवता प्रकटीभूय सर्वजनसमक्षं प्रोचे-“अहोऽनेन वामदेवेन विश्वासघातिना तावत् रत्नं हृतं, पुनर्मिथ्याभाषणेन विमलो विप्रतारितस्ततोऽस्य कर्मचाण्डालस्य कर्मचाण्डालेनेत्थं दुर्दशा कृताऽस्ति / अत: परमप्येनं भृशं विडम्बयिष्याम्यहम्" इत्याकाऽपि कृपालुना विमलेन मधुरवचनैर्वनदेवतां प्रसाद्य नीरुजः कारितोऽहम् / .. अथ ज्ञातं सर्वलोकैर्मम दुश्चरितं धिकृतश्च तैर्बुहुधा, बहिष्कृतः स्वजनादिभिर्गेहात्, तथापि विमलेन न किञ्चिदपि कृतं मनोमालिन्यं, प्रत्युत "दुरा एते प्राकृतज़ना, न चैषां वचनैस्त्वया काऽप्यतिर्विधेयेति' मा समाश्वासयामास / ..अथाऽन्यदा विमलकुमारो मदन्वितः प्राप्तः क्रीडानन्दनम् / तत्र चैत्ये गत्वा यावत् मधुर-स्वरेण नव्यकाव्यप्रबन्धैर्यावद् युगादिदेवं स्तोतुं प्रवृत्तस्तावद् रत्नचूडोऽपि चूतमञ्जर्या सहितस्तत्रायातः / परमभक्तिप्राग्भारजन्यां विमलोक्तां तां स्तुतिं श्रुत्वा हृष्टः, स्वयमपि भगवन्तं तुष्टाव / अथ जिन-वन्दनान्ते बहिर्मण्डपमागत्याऽन्योऽन्यं सानन्दाश्रुलोचनमाश्लिष्य परस्परं कुशलप्रश्नश्चक्रे, रत्नचूडः प्राह- "मित्र ! त्वं मे मनसः क्षणमपि न विस्मृतोऽसि तथापि कार्यव्यग्रत्वेनाऽद्य यावत् त्वन्मिलनायाऽपि नाऽऽगमम् / बुधाचार्यमपि न समानयं, यतो यद्-दिने त्वां मिलित्वा गतोऽहं वैताढ्ये तद्-दिन एव रात्रिशेषे रोहिण्यादि-षोडश-देव्यः प्रकटीभूय मामूचुः- 'वत्स ! त्वत्पुण्योदयाकृष्टा वयं सर्वा अपि अद्य प्रभृति तवाऽङ्गे अवतरिष्यामो, भविता च त्वं खेचरचक्री / आयान्ति च सर्वेऽपि खेचरा: प्रातस्त्वामभिषेक्तुं', तदाकर्ण्य ध्यातं मया- 'यदहो ! एता विद्यादेव्यश्वक्रित्वं चैतत्सर्वं पुण्यानुबन्धिपुण्यफलम् / विमलेन सह व्रतादानोत्सुकस्य मे सुवर्णनिगडप्रायं राजविष्टिरिवाऽवश्यं भोक्तव्यमेवेति यावच्चिन्तयामि तावत् मदङ्गं प्रविष्टास्ता विद्यादेव्यः। अथ प्रगे सकलैर्विद्याधरैः सम्भूय महामहपूर्वकं कृतो मे राज्याभिषेकः, धृता च तैः शिरसि मदाज्ञा / तद्-दिवसादारभ्य नाना-राज्यकार्यविधानव्यग्रस्य मे गतानि कियन्ति दिनानि / एकदा स्मृतं मया- यदहो ! मेऽनवधानत्वं, विमलोक्तं कार्यं विस्मार्य राज्यार्तिपङ्कमग्नोऽनिशं तिष्ठामि इति / ततो बहुषु स्थानेषु गवेषयता दृष्टोऽन्यदैकत्र बुधसूरिः / कथितो मया त्वदीक्षाभिलाषः, प्रार्थितश्चासौ त्वत्कुटुम्ब-प्रतिबोधार्थं तदा सूरिणोक्तं- "वरं, यास्यामो वयं प्रस्तावे तत्र वर्धमानपुरे।" तत्प्रमाणीकृत्याऽहमत्राऽऽगत इति कृत्वा रत्नचूडेन काचित् सङ्केतवार्ता विमलस्य कर्णे कथिता / अथैतदाकर्ण्य हृष्टो विमलः, सपत्नीकं रत्नचूडमत्यादरेण स्वमन्दिरं समानिनाय / विविधभोज्य-वस्त्राल