________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार-३ 65 वने / इतश्च विमलोऽपि जिनवन्दनेच्छया तद्-वनं जिगमिषुर्मद्गृहमायातस्तावत् कस्यचित् मुखात् मां तत्रैव गतं विज्ञाय सोऽपि मामनुपदं प्रचलितः / अथ यावदहं रत्नन्यासस्थले गत्वा स्थितस्तावद् दूराद् विमलोऽप्यागच्छन् दृष्टः। तदालोकनादत्याकुलेन मया रत्नं गृहीत्वा न्यस्तस्तत्र स्थले दृषत्-खण्डः / रत्नमपि विमलभीत्याऽन्यत्र भुवि क्षिप्तं, तावदायातेन विमलेन पृष्टोऽहं- "मित्र ! किमर्थमिहाऽऽयातोऽसि ? कथं च विलक्ष इव दृश्यसे?" मयोक्तं- "मित्र ! त्वामत्राऽऽगतं श्रुत्वाऽहमप्यागमं, पुनस्त्वां दृष्ट्वा वैलक्ष्यं प्राप्त इति" ततो वरमित्युक्त्वा मां सार्धं गृहीत्वा विमलश्चैत्यमुपेयिवान् ! अथ विमले चैत्यान्तः प्रविष्टे पृष्टतो मया चिन्तितं- यदहं रत्नं गहन् विमलेन दृष्टो भवेयम् / ततो इतो नश्यामि' इति ध्यात्वा रत्नन्यासस्थलमागत्य व्याकुलत्वाद् रत्नभ्रान्त्या दृषत्खण्डमादाय पलायितो वनमध्ये, दिनत्रयेण अष्टाविंशतियोजनान्युल्लङ्घ्य किञ्चिद् विश्रम्य तत्र ग्रन्थिमुद्ग्रथ्य यावद् विलोकयामि तावदश्मखण्डं विलोक्य मूर्च्छितो मुहूर्त्तान्तरे पुनर्लब्धचेतनो रत्नग्रहणेच्छया प्रत्यावृत्तः / इतश्च प्रसादात् निर्गतेन विमलेन मामदृष्ट्वा व्यग्रीभूतेन मद्-विलोकनाय प्रेषिताः समन्तात् सेवकास्तन्मध्यादेको मामभ्यापतितस्तं दृष्ट्वा यावद् भय-विह्वलाङ्गो नश्यामि तावत् तेनोक्तं- "अहो वामदेव! त्वामनालोक्य विमलकुमारस्तु भृशं चिन्ताकुलितोऽस्ति, तदागम्यतां शीघ्रमिति" श्रुत्वा विमलेन न ज्ञातो मेऽपराध इति जातधैर्यः समागतोऽहं विमलान्तिकं, विमलोऽपि साश्रुनेत्रो मामाश्रृिष्यार्धासने निवेश्य मे गमनकारणं पप्रच्छ / अथ मायानुभावतो मिथ्याकल्पयित्वा मयोक्तं- "मित्र! त्वयि प्रासादान्तःप्रविष्टे द्वारि स्थितोऽहं कयाचिद् विद्याधर्याऽपहृत्तस्तिर्यग्-गगनाऽध्वनि कियन्ति योजनानि गत्वा सा मां भोगार्थं प्रार्थयामास / मया तु त्ववियोगानलतप्तेन तद्वचो न प्रपन्नम् / अत्रान्तरे अन्या काचित् खेचरी आयाता, साऽपि मम हस्ते विलग्ना, ततो जातस्तयोः कलहस्तद्विग्रहव्यग्रयो-स्तयोहस्ताभ्यां स्खलित: पतितोऽहं भुवि, जातो भृशं जर्जराङ्गस्तथापि त्वत्प्रेम पारवश्यात् कथञ्चिच्छनैः शनैः प्रचलनिहागममित्येतन्मे माया-जल्पितं स्वभाव-सरलत्वाद् विमलेन सत्यं मेने / अथैतत् मिथ्या वृत्तान्तकथनानन्तरमेव ममाङ्गे महावेदना जाता, तद्वशात् समुद्घान्तनेत्रः पतितोऽहं भुवि, जातो निश्चेष्टः, मदुःखार्तेन विमलेन कृतो हाहारवः, मिलिताश्च धवलराजादयः सर्वेऽपि, कृताश्च मन्त्राद्यनेकशः प्रतीकारास्तथापि नोपशान्ता किमपि सा वेदना / तदवसरे स्मृतं विमलेन 'यदहो ! अचिन्त्य-प्रभावस्य चिन्तारत्नस्य प्रक्षालनजलेन शाम्यत्येषा वेदनेति' ध्यात्वा तन्यास-स्थले गत्वा विलोकितं, तत्र रत्नमदृष्ट्वा केनाऽपि