________________ 64 श्री हंसविजयविरचिते बीभत्साकृतिः कश्चित् सूरिर्मेघगम्भीरस्वरेण धर्मदेशनां तन्वानो वीक्षितस्तदा मया ध्यातं'यदहो ! गुरुर्वचनातिशयस्तु विश्वातिशायी तन्न युज्यतेऽस्यैवंविधकुरूपत्वमिति / ततः प्रासादन्तर्गत्वा विधिनाऽष्टभिः प्रकारैर्जिनानभ्यर्च्य स्तुति-मङ्गलादि कृत्वा यावत् प्रासादाद् बहिर्निगतोऽहं तावत् कनककमलस्थितं सकलाङ्गोपाङ्गसुन्दरं साक्षात् मकरध्वज-स्वरूपं तमाचार्यं विलोक्य मया चिन्तितं - 'अहो ! मयाऽधुनैव कुरूपो दृष्टोऽभूत् क्षणमात्रादेव च जात्य-कार्तस्वरकान्तिर्जातोऽयं महानुभावः / यदिवा भवन्त्येव तपस्विनोऽनेकलब्धिनिधयः / पुरा मम धर्माचार्येण चन्दनेनाऽप्युक्तमभूद् यत् तपस्विनोऽणुवत्सूक्ष्म-शरीरं कुर्वन्ति, मेरोरपि महच्छरीरं कुर्वन्ति, वायोरपि लघूभवन्ति, वज्रादप्यतिगुरवो भवन्ति, भूमिस्था अप्यङ्गुल्यग्रेण मेहं स्पृशन्ति; अग्नि-जलादावपि भूमाविव मच्छन्ति, न च तदाश्रित-जीवान् बाधयन्ति / तथा चक्रि-शक्रादि-ऋद्धिं विकुर्वन्ति / इन्द्रोपेन्द्रादीनपि वशीकुर्वन्ति / इत्थमनेकलब्धि-कलिता नाना-रूपा भवन्ति इति तन्महानुभावा एते महर्षय' इति विचिन्त्यि वन्दिता मया प्रत्येक ते सर्व-साधवो, दत्ता च तैर्धर्मलाभेत्याशीः। ' अथ मया गुरुमुखाद् धर्मदेशनां श्रुत्वा कश्चिन्मुनिः पृष्टः सूरेर्नामादिकं स त्वाह"बुधाचार्योऽयं निःशेषलब्धिपात्रमिति" श्रुत्वा साक्षात् तपःप्रभावं दृष्ट्वा च जाता मे जैनमते दृढभक्तिः / ततः साधून् नत्वा गृहमायातः, गुरवोऽपि मुनिगण-वृता अन्यत्र व्यहरन्। ततो हे विमल ! यदि कथञ्चित् पुनरपि ते बुधाचार्या मिलन्ति, तदा भवत्येव भवदिष्टसिद्धिः।" विमल: प्राह- "हे मित्र ! यदि क्वाऽपि ते गुरवस्त्वद्-दृष्टिगोचरीभवन्ति, तदा त्वया मदर्थमभ्यर्थनीया यथाऽत्राऽऽयान्तीति" तद्वचः प्रतिश्रुतं रत्नचूडेन / अथ चिरं यावत् परस्परं प्रणय-पेशलैर्धर्मदृढीकरणकारणैर्वार्तालापैः तत्र स्थित्वा रत्नचूडं बन्धुत्वेन, चूतमञ्जरी च स्वसृत्वेन प्रतिष्ठाप्य, स्वपुरप्रस्थानोन्मुखौ तौ दम्पती भूयसीं भूमिमनुव्रज्य शीघ्रं पुनदर्शनेन सम्भावनीयोऽहमित्यादि वदन् बाष्पपूर्णनयनः प्रतिनिवृत्तो विमलः / ___ वामदेवकृतं रत्नहरणम् / वनदेवताकोपः / ... शृणु अगृहीतसङ्केते ! इत्थं विमल-रलचूडोक्तानेकधर्मकथा मया समीपस्थेन श्रुतास्तथाऽपि रत्नचूडार्पित-चिन्तारत्नहरणचिन्ताकुलचेतसा न किञ्चिदप्यवधारिताः / अथाऽऽवा चलितौ गृहं प्रति, अग्रे गत्वा विमलं प्रति मयोक्तं- "मित्र ! एतद्-रतं मुच्यताऽत्रैव क्वापि," विमलेनाऽपि सरलतया "तथास्तु" इत्युक्ते भुवं निखाय मुक्तं मया तत्र तद्-रत्नम् / क्रमेण प्राप्तौ स्व-स्व-सदनम् / रात्रौ च रत्नहरणोपायं विचिन्तयतः क्षणमात्रमपि मे निद्रा नाऽऽयाता / प्रभाते स्तेयकुमित्र-प्रेरितो रत्नहरणार्थं प्राप्तोऽहं तत्र