________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार-३ ऽप्यभिमुखो मिलितस्तमपि सम्यग् निरौजसं विधाय शीघ्रमिहागमम् / इत्येषोऽस्मद्वृत्तान्तस्तत्- कुमारशेखर ! कथय साम्प्रतं स्ववृत्तान्तम्, तदा मया वर्धमानपुरेशधवलधरापालसूनुर्निखिलगुण-निवास-सदनं विमलनामा कुमारोऽयं कौतुकार्थी क्रीडानन्दनमायातोऽस्तीत्यादि कथितं, तदाकर्ण्य हृष्टो रत्नचूड एकं महारत्नं बलात्कारेण विमलकुमाराय ददौ / . विमलस्य जातिस्मरणज्ञानं, वैराग्यश्च / अथ वार्तान्तरे रत्नचूडेनोक्तं- "अहो मित्र ! अत्रोद्याने मम पितृभ्यां कारितः श्रीऋषभजिनप्रासादोऽस्ति / तद्यामस्तत्र भगवद्-दर्शनार्थमिति / ततो गताश्चत्वारोऽपि वयं प्रासादे, प्रविष्ट्राश्च नानामणिनिबद्ध-कुट्टिम-कान्ति-कर्बुरितदिग्वलयं सदोद्योतं प्रासादमध्यम् / तत्र नाना-स्तुति भङ्गीभी रत्नचूडः श्रीयुगादिदेवं तुष्टाव / विमलोऽपि भगवद्-दर्शनात् प्रोद्भूताऽनिर्वाच्य-प्रेमरसोऽत्यर्थं मुमुदे / अथ भगवन्तं प्रणिपत्य यावद् बर्हिमण्डपे निविष्टास्तावन्मूर्च्छितो विमलः शीतोपचारैः सावधानीकृतो रत्नचूडपादयोर्निपत्य जगाद- "अहो मित्र ! त्वं मेंऽकारण-बन्धुर्गुरुः परमोपकारकारी च / त्वदुपदेशाद् भगवन्तं विलोक्य मम जातिस्मृतिरभूत् / भवान्तरे प्रतिपन्न-सम्यक्त्वेन मया बहुशो जिनपूजाः कृता अभूवन् इहाऽप्यद्य प्रभृति त्वत्प्रसादात् मया जिनधर्मे यतितव्यम् / " इति श्रुत्वा जातोत्पुलको रत्नचूडः साधर्मिकभक्त्या विमलं प्रणम्य प्राह- "मित्र ! सिद्ध मेऽद्य सर्वाभीष्टं यत् प्रतिपन्नस्त्वयाऽर्हद्-धर्मः / साधर्मिकेण सौहार्दै तत् स्वर्णसौरभप्रायं पुण्यप्राग्भारमन्तरेण नाऽऽप्यते / अन्यच्च धन्योऽसि त्वं, यच्चिन्तामणिलाभेऽप्यनुत्सिक्तमनाः, साम्प्रतं जातिस्मृत्या जिनधर्ममासाद्याऽप्रमेयां मुदमावहसि ! मूढास्तु स्त्रीधन-राज्यादि लब्ध्वा हृष्यन्ति, ये च त्वादृशा धीरपुमांसस्ते तु धर्ममेव बहुमन्यन्ते / " बुधाचार्यस्वरूपम् / लब्धिस्वरूपम् / _ विमलः प्राह- "मित्र ! इदानीं मे संसारस्वरूपं किम्पाकविपाकप्रायं प्रतिभाति / तदद्यैव संयममाद्रिये, परम् अविज्ञात-धर्मतत्त्वौ मम पितरौ नाऽनुमन्येते, ततो यथाकथमपि तौ प्रतिबुद्धयेते तर्हि सिद्धयति मे समीहितम् / रत्नचूडोऽवक्- "मित्र ! यदि कथञ्चित् कुतश्चिद् बुधनामाचार्याः समायान्ति, तदा ते बोधयन्ति ते पितरौ / दृष्टपूर्वाऽस्ति मे तेषामचिन्त्यशक्तिः।" विमलः प्राह- "मित्र ! भवता व दृष्टास्ते बुधाचार्याः ?" रत्नचूडः प्राह- "मित्र! गताऽष्टम्यामत्रैव प्रासादे जिनवन्दनागतेन मया प्रासादद्वारे बहुमुनिमण्डलीपरिक्षिप्तः कृष्णाऽङ्गो विरूप-स्त्रिकोणशिरा गलन्नेत्रो नतनासिकः प्रलम्बग्रीवोदरो