________________ श्री हंसविजयविरचिते विमलस्योपकारः कथितः पत्युः पुरः, तेनाऽपि हृष्टेन विमलं प्रत्युक्तं- "अहो अकारणबन्धो! त्वया मत्-प्रिया दुष्टात् रक्षिता समाश्वासिता च, ततो बहूपकृतं मयि ततः समादिश किमपि कृत्यं यत्-प्रत्युपकारकरणेन किञ्चिदहमप्यनृणः स्यामिति'' तेनोक्ते- विमल: प्राह- "अहो मित्र! त्वया स्वबलेन जितौ विपक्षौ, तत्र कोऽहमुपकर्ता ? परं त्वद्दर्शनादेव जाता मे सकलकार्यसिद्धिः / ततस्तोषय स्ववृत्तान्त-कथनेन मामिति / " अथ स प्राह- शृणु मित्र ! अस्मन्मूलवार्ता .. रत्नचूडवृत्तान्तम् / वैतादयस्य दक्षिणश्रेण्यां गगनशेखरपुरे मणिप्रभो राजा, कनकशिखा तत्-प्रिया। तयोः रत्नशेखरनामा एकः पुत्रो, रलशिखा-मणिशिंखाऽभिधे च द्वे पुत्र्यौ, तन्मध्ये रत्नशिखा मेघनादखेचरेण परिणीता, तस्याः पुत्रऽहं रत्नचूडनामा, मणिशिखा तु शितप्रभेण परिणीता, तस्या अचल-चपलाख्यौ द्वौ सुतौ, रत्नशेखररस्य रतिकान्ता पत्नी, तत् कुक्षिसम्भवा चूतमञ्जरीयं मे पत्नी / अथ बाल्ये तु अहं तथाऽचल-चपलौ चूतमञ्जरी च एवं सर्वेऽपि वयं रत्नशेखर-मातुलग्रहे एकत्र क्रीडामः / ____ अथैकश्चन्दन-नामा सिद्धपुत्रोऽष्टाङ्ग-निमित्तविद् जिनमताभिज्ञश्च रत्नशेखरनृपस्य बालमित्रमभूत् / तत् सङगाद् रत्नशेखरोऽपि श्रावकत्वं प्रपेदे / क्रमेण मम माता-पितरौ रत्नशिखा-मेघनादावपि तेन चन्दनेन जैनधर्मं प्रबोधितौ / ततोऽहमपि श्रावको जातः / अथैकदा चन्दनेन मदभिमुखमालोक्य मन्मातुलं प्रत्युक्तं- "अहो रत्नशेखर ! अयं ते भागिनेयो रत्नचूडः खेचर-चक्रवर्ती भावीति लक्ष्यते / " अत्राऽन्तरे मया विमलं प्रत्युक्तं "मित्र ! यत् त्वया सुलक्षणोऽयं पुमान् नूनं चक्रवर्ती भविष्यति इत्यादि यदुक्तं तत् सत्यं जातमिति पुनः रत्नचूड आह- "ततो रत्नशेखरेण चन्दनवचनादभ्युदयिनं जैनं च मां विज्ञाय स्वपुत्री चूतमञ्जरीयं मह्यं दत्ता / तद्व्यतिकरादचल-चपलौ मम मातृध्वस्रीयावसहनौ मनसि दूनौ, तदा प्रभृति मयि मत्सरं वहतः / परं चूतमञ्जरीमपहर्तुं मामुपद्रोतुं वाऽशक्तौ एकदा कालीनाम्नी दुष्टविद्यां साधयामातुः, सिद्धविद्यौ च तौ यावत् मया सहयोद्धमागच्छतस्तावन्मुखराभिध-दूतमुखेन तदागमनं विज्ञाय मयाऽचिन्तियदहो ! आभ्यां युध्यमानस्य मे मा भूत् मातृष्वस्त्रीयघातपातकमिति तदितोऽपसरामि तावदिति प्रियामादाया-ऽऽगतोऽहमत्र क्रीडानन्दने, इतस्तावपि कथञ्चित् मामत्राऽऽगतं विज्ञाय पश्चादायातौ, भवतो: पश्यतोरेवाऽचलेनाऽहं युद्धार्थमाकारितः क्रमान्मया विनिर्जितः, पलायितोऽपि पश्चाद् गत्वा निर्वीर्यांकृत्य मुक्तः / . अथ चपलेन चूतमञ्जरी हृता मा भूत् इति ससाध्वसो यावदहं प्रतिनिवृत्तस्तावच्चपलो