________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार-३ . ततोऽहं मायानुभावाद् विश्वस्तान् मातृ-पित्रादीनपि वञ्चयामि, स्तेनवशाच्च यस्य तस्य यत् तत् चोरयामि / इत्थं कुलक्षणत्वात् स्वजनवर्गेऽवगणनास्पदं जातः / / रत्नचूडकथा . __अथ मन्मातुः कनकसुन्दर्याः कमलसुन्दर्या राज्या सह सख्यमभूत् / तत्-स्नेहाद् विमलकुमारेण सह मम मैत्री बभूव / यद्यप्यहं बहुशोऽपि तं वञ्चयामि, तथाऽप्यसौ परमसौजन्यपात्रं मयि परमप्रणयं धत्ते / क्रमेणावां द्वावपि सहाऽध्यायिनौ शिक्षितौ कलाकलापम् / अन्यदा कौतुकार्थिनौ विविधवृक्षोपशोभितं क्रीडानन्दनाभिधमुद्यानं प्राप्तौ, तत्र नाना-तरु-गुल्म-लतादि-शोभावलोकनपराभ्यां आवाभ्यां कश्चिदव्यक्त-मधुरध्वनिः शुश्रुवे / तदा मया विमलं प्रत्युक्तं- "मित्र ! किङ्किण्यादिशिञ्जितसन्निभी ध्वनिरयं, तन्नूनं वनसुषमा-समालोकन-कौतुकी कोऽपि किन्नरोऽमरो वाऽत्र क्वचिल्लता-कुञ्जान्तरादौ विहरन् भविष्यति / विलोकयामस्तावदिति" शब्दानुसारेण यावदावा कियन्ति पदानि गतौ, तावच्चक्रा-ऽङ्कश-च्छत्रादिलक्षणोपेतानि सिकतासु सद्यस्कांनि कस्यचित् पदानि दृष्ट्वा विमलेनोक्तं- "यदयं कोऽप्युत्तम-पुमान् सम्भाव्यते / अन्तरीक्ष-चारिणां सुराणां पदन्यासाऽभावात् / " इत्युक्त्वा यावदग्रे विलोकयावस्तावल्लता-गहने मिथुनमेकं सर्वाङ्गसुन्दरमालोक्य विमलः प्राह मित्र ! अयं पुमान् विशालवक्षा: प्रोन्नतांसः पद्मपत्राक्षः प्रलम्बबाहुः तनु-मध्य एवं सर्वाङ्ग-सुलक्षणः कश्चित् साक्षाच्चक्रवर्तीव भासते / इयमस्य दयिताऽपि करभोरु, पृथुनितम्बा सल्लक्षणाङ्कित-सर्वावयवा दृश्यते साक्षालक्ष्मीरिवेति। यावदावां वार्ता-परौ स्वस्तावद् गगनाध्वना द्वौ पुरुषौ लतागृहोपर्यायातौ / तयोरेकेन तिरस्कारपूर्वकं- "एहि रे पौरुषं वहसि चेत् तद् युध्यस्व मया सहेत्याकारितो मिथुनपुरुषः / सोऽपि लतागृहे प्रियां मुक्त्वा कोपकरालाक्षो धावितस्तदभिमुखं, तावद् द्वितीयपुरुषो लतागृहाऽन्तः स्त्रियं गृहीतुं धावितः / सा स्त्री ततः पलाय्य "अहो ! वीर ! रक्ष मां रक्ष मां" इति वदन्ती भयवेपमानाऽङ्गी विमलं शरणीचक्रे / तदा विमलस्य पुण्योदयमाहात्म्यात् वनदेवतया स्तम्भितोऽसौ दुष्टः / - अथ मिथुन-पुरुषेण विनिर्जितोऽन्यः पुमान् नष्टः, मिथुनपुरुषोऽपि तदनुगतः, तदा स स्तम्भितोऽपि तदनुयियासुर्मुक्तो वनदेवतया तयोः पृष्टे उद्योतः / एवं ते त्रयोऽपि दृष्टिपथमतीत्य गगनाऽध्वना गता दूरे, जाता भूयसी वेला / अथ चिरेणाऽपि नाऽगतो मे पतिस्तद्-दुष्टाभ्यां पराभूतो हतो वा मा स्म भूदिति दुःखार्ता सा स्त्री रोदिनुं लग्ना, विमलेन समाश्वासिता, तां तत्र निवेश्य यावद् विमलस्तत्-पत्यन्वेषणार्थं याति, तावत् ‘स पुमान् द्वावपि दुष्टौ विजित्य जिताहवोऽम्बरतलादवतीर्णः, हृष्टा च तद्-दयिता / तया