________________ अधिकारः - 3 संसारिजीवस्य माया-स्तेयसम्पर्कः / अथाऽगृहीतशङ्केतां सम्बोध्य संसारि-जीवो वक्ति-सदागमो भव्यपुरुषः प्रज्ञाविशला च त्रयोऽपि शृण्वन्ति / . . ___ श्रृणु अगृहीतसङ्केते ! पुण्योदयं सहायीकृत्याऽऽगतोऽहं मनुष्यगतिपुर्याम्, अथाऽस्ति वर्धमानपुरे स्वकीर्त्तिधवलितधरावलयो धवलो नाम नृपस्तत्पट्टराज्ञी कमलसुन्दरी, तयोः सुतो विमलकुमार इति यथार्थनामाऽस्ति, तत्रैव पुरे सोमवदेवव्यवहारी वसति, तस्य भार्या कनकसुन्दरी तस्याः कुक्षौ पुत्रत्वेन भवितव्यतयाऽवतारितोऽहं, समये जातश्च पुण्योदयसहितः / पित्रा जन्मोत्सवं विधाय वामदेव इति मदभिधा चक्रे / क्रमेण मातृपित्रादिभिर्लाल्यमानो वर्द्ध। - एकदा श्यामवर्णी द्वौ पुमांसौ वक्राङ्गी चञ्चला चैका स्त्री, एवं ते त्रयोऽपि मया दृष्टाः / तन्मध्यादेकेन समालिङ्ग्य भाषितोऽहं- "मित्र ! स्मरसि मां?".मयोक्तं- “नाऽहं स्मरामि / तदा तेनोक्तं- "असंव्यवहार-पुरादारभ्य यत्र यत्र स्थाने चिंक्रीडिथ तत्र तत्राहमप्यलक्षित इव तव सहैवाऽभूवम् / रिपुदारणभवे तु प्रकट एव मृषावाद-नामा तव सखाऽभूवम् / तदा त्वं मयि परमासक्तोऽभूः, एकदा मच्छक्ति-रञ्जितेन त्वया मे पृष्टं शक्तिप्राप्तिनिमित्तं, तदा मया रागकेशरिसुता मम प्रतिपन्न-भगिनी मायाऽभिधा, तत्सकाशात् शिक्षितोऽहं, समये त्वामपि तां दर्शयिष्ये इति यदुक्तमभूत्, तत्- सत्यापनायैनां मायां, तथा एनं च स्तेयनामानं मल्लघुभ्रातरमादायाऽऽगतोऽस्मीति / " तदा मयोक्तं"अहो मित्र ! यद्यपि त्वां न लक्षयामि, तथापि त्वदालोकनान्मनो मे हृष्यतीति / जानामि ते परमसौहार्दै, ततस्तिष्ठ मदुपान्ते त्वं भ्रातृ-भगिनी युत" इति श्रुत्वा मृषावादेनोक्तं"साम्प्रतं तु माया-स्तेये त्वदन्तिके स्थास्यतः, तयोस्त्वया प्रणयपरेण भाव्यं, तेऽपि तव नाना-शक्तीर्दास्यतः / प्रस्तावे चाऽहमपि प्रकटिष्यामि / अधुना त्वन्तर्हितः स्थास्यामी" त्युक्त्वाऽन्तर्दधे / __ अथ माया-स्तेये समाश्लिष्य हृष्टोऽहं, ध्यातं चाऽहो ! मृषावादस्य प्रणयो, यदनन्तेनाऽपि कालेन तादृगेवाऽऽसीत्, कृतोऽनेन मयि महोपकारो मित्र-द्वय-दानेनेत्यादि /