________________ पण्डित श्री हंसरत्नविरचिते अथ प्रकर्ष उवाच- "मातुल! यं सन्तोषनामा महाभटमुद्दिश्य वयमत्रागताः स्म स तु अधुनाऽपि क्वाऽपि न दृष्टस्तत् क्व भविष्यत्यसौ।" विमर्शः प्राहः- “पश्य पश्य वत्स! अयं चारित्रधर्माभिमुखः संयमस्य पुरतो निविष्टः, प्रबल-पराक्रमः सन्तोषनामा महाभटः, येन दोष्मता ध्वस्तानि पञ्चाऽपि स्पर्शनादीनि, विहितश्च हतौजा: महामोहमहीपालः / अत एव चारित्रधर्मनृपेण सर्वं स्वसैन्यं समर्प्य सेनानीत्वे स्थापितोऽस्ति / अस्य मोहराजेन सह युद्ध्यतोऽनन्तः कालोऽतिक्रान्तः, कदाप्येतत्सैन्यमपसरति, कदाचिच्च मोहसैन्यमपसरित, परं न ज्ञायते निदाने किं भविष्यतीति ? इयं चाऽस्याइसङ्गिनी निष्पिपासिताख्या प्रणयिनी, अस्याः प्रभावात् लाभाऽलाभयोः सुखदुःखयोर्माना-ऽपमानयोः शुभा-ऽशुभाहारयोर्वा सममनसः सन्तुष्टाशया: प्राणिनो भवन्ति / अतो हे प्रकर्ष ! चारित्रधर्मनृपो यतिधर्म-गृहिधर्मी राजकुमारौ सम्यग्दर्शनसद्बोधाख्यौ राज्यचिन्तकौ प्रधानौ सन्तोष: सेनानीः / एते सर्वेऽपि सपरिच्छदाः सर्वेषां प्राणिनां हितकारकाः, तथा हे वत्स! एते मण्डपमध्ये स्थिताः शुभाशय-विशुद्धाशयाद्याः अनेकशः सुभटाश्चारित्रधर्मं सेवन्ते, इत्थं चाऽस्य सैन्यं प्रत्येकं वर्णयितुं कः क्षमः स्यादित्यलं विस्तरेण / सम्प्रति गृहं याव" इत्युदित्वा सौजन्य-दाक्षिण्याद्यनेकमातङ्गान्, गाभ्यीर्य-धैर्यादीन् लक्षशो रथान्, बुद्धिपाटव-तत्त्वावबोधादितुरङ्गमान्, विनीतत्वस्थैर्यादि-पदातिकांश्च विलोकयन्तौ निर्गतौ द्वावपि / विमर्श-प्रकर्षयोः स्वगृहे आगमनम् __ अत्राऽन्तरे प्रकर्षों जगाद- "मातुल ! त्वया मे महत्कौतुकं दर्शितं, त्वदनुभावात् ज्ञातं मया मोहसैन्य-चारित्रधर्मसैन्य-भवचक्र-विवेकशैल-जैनपुरादीनां निखिलं स्वरूपं, जातश्चाऽहं कृतकृत्यस्तथाऽप्यत्र स्थित्वा सम्यक् विवेकशैल-भवचक्रादिस्वरूपं निरीक्षितुं सतृष्णं मे मनस्तदत्र तिष्ठाम: कियन्ति दिनानि" इति तद्वचः प्रतिश्रुतं विमर्शेन, स्थितौ च तत्राऽनेक-कौतुकालोकन-परौ चतुरो मासान् / अथाऽन्यदा प्रतिपूर्णं स्वावधिकालं विज्ञाय गृहं प्रति प्रस्थितौ मातुल-भागिनेयौ स्वल्पकालेन प्रत्यागतौ स्वगृहं, मिलितौ च बुद्धि-विचक्षणाभ्यां, हृष्टा च बुद्धिर्धातृ-सुतयोर्दर्शनेन, निवेसितश्च प्रकर्षो विचक्षणेन स्वोत्सङ्गं, कृतं चाऽन्योऽन्यं कुशलप्रश्नं, निवेदितो विमर्श-प्रकर्षाभ्यां राजसचित्त-तामसचित्तादिषु दृष्टश्रुतः सर्वो व्यतिकरः, कथिता च विषयाभिलाष-मन्त्रिसुतेति रसनाया मूलशुद्धिः, वर्णितश्च मोहसैन्य-भवचक्रविवेकशैल-जैनपुर-चारित्रधर्म-सैन्यादि सम्बन्धी-वृत्तान्तः /