________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 57 रसनालौल्यात् जडस्य दुर्दशां दृष्टवा विचक्षणस्य दीक्षास्वीकारः / तदाकर्ण्य विचक्षणो विशेषात् रसना-विषयं ममत्वं तत्याज / अथ जडस्तु लोलता-प्रेरितो मद्य-मांसादिभिर्बहुधा रसनां पोषयन्नास्ते / ___अथाऽन्यदा जडः उरभ्र-भ्रान्त्या वाऽपि प्रसुप्तं पशुपालं बाणेन जघान, समीपमागतः सन् पुरुषं हतं विज्ञाय मनसि दध्यौ- 'यदहो ! मया नानामिषानि रसनातुष्टये भक्षितानि, परं मनुष्यमांसं तु कदापि न भक्षितं, तदद्य मनुष्य-सम्बन्धिमहामांसेन रसनां तर्पयामि' इति विचिन्त्य भक्षितं तेन पुशपालमांसं, जाता च बलवती लोलता, तद्वशात् प्रत्यहं महामांसभक्षणलोलुपोऽसौ पौराणां शिशून्यपहत्याऽपहत्य भक्षयामास / एकदा रात्रौ शूरनाम्नः क्षत्रियस्य गृहमध्ये प्रविश्य, तस्य स्तनन्धयं पुत्रमादाय यावत् निर्याति तावजागरितेन शूरेण दृढं बद्ध्वा विडम्बना-शतै शं विडम्बितः, प्रभाते सर्वलोकैतिं जडस्य तद्-दुश्चेष्टितम् / / . अथ विचक्षणस्तां भ्रातुरपभ्राजनां विडम्बनां च वीक्ष्य लजितोऽचिन्तयत् / 'अहह! जडेन दुष्टस्त्रिया रसनायाः पारवश्यात् अस्माकं कुलं कलङ्कितं, तदधमकुलो द्भावाया एतस्या दुष्टस्त्रियास्त्याग एव वरमिति / ततः स्वपितरं शुभोदयं चारुतां मातरं चाऽऽपृच्छ्य बुद्धिं प्रकर्ष विमर्श च सहाऽऽदाय विवेकशैलस्याऽप्रमत्तता-सानुस्थं जैनपुरमागत्य श्रीगुणधरसूरेरुपान्ते दीक्षां जग्राह / तदा माता-पितरावपि सहागतौ / राजन् ! सोऽहं विचक्षणः क्रमेण गुरुसेवां कुर्वाण: शिक्षितः सकलं साध्वाचारं, कृता चाऽनेकतपोभी रसनाऽकिञ्चित्करी, एवं कियत्कालातिक्रमे मां गीतार्थं विज्ञाय श्रीगुरुभिः सूरिपदं दत्तं, कृतश्च मन्निष्ठः श्रमणसङ्घः, क्रमेण विहरन्निहागममित्युक्तं ते मद्-दीक्षाकारणम् / - रिपुदारणं राज्ये निवेश्य नरवाहनस्य दीक्षाग्रहणम् / अथैवं नानोपदेशमयं विचक्षणसूरि-चरितमाकर्ण्य प्रबुद्धचेता नरवाहननृपः प्राञ्जलि गुरुं प्रत्याह- "स्वामिन्! प्रबोधितोऽहं प्रमाद-विषविलुप्तचेतनस्त्वया स्वचरिता-ऽमृतपानेन, सम्प्रति कृतार्थय मां भगवद्-दीक्षा-प्रदानेनेति'' गुरुभिस्तस्य योग्यतां मत्वा "यथासुखमिति" तद्वचः प्रतिपेदे / अथाऽगृहीतसङ्केते ! तदवसरे मां तथाविधं दुःस्थितं वीक्ष्य मम पुण्योदयो लजितः किञ्चित् समासन्नः समजनि, तदनुभावाद् राज्ञा राज्यप्रदानचिन्तया निर्गुणोऽप्यहं स्मारितः, तदैव तत्रोपविष्टं दीनवदनं मां वीक्ष्य जातस्नेहः पिता स्वोत्सङ्गे निवेश्य गुरुं पप्रच्छ- "स्वामिन् ! रिपदारणोऽयं आबाल्या-देव स्तब्धचित्तः स्वदोषादेव म्रियमाणे स्वजननी-भार्येऽनेन