________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 जर्जरीकुर्वते / षष्ठं संयमनामकं, तच्च पञ्चाश्रवविरति-पञ्चेन्द्रिय-निरोधकषायचतुष्कजय-योगत्रयनिरोधलक्षण-सप्तदश-मानुषकलितं, सप्तमं च सत्यम्, अष्टमं द्रव्यभावभिन्नं शौचं, नवमं चाऽकिञ्चन्यं, दशमं ब्रह्मचर्यं चेति एभिर्दशभित्तोऽयं राज्ञो ज्येष्ठपुत्रो यतिधर्मनामा वामाने चाऽस्य पत्नीभावसारताभिधा, तथा द्वितीयोऽयं राज्ञो लघुपुत्रो गृहस्थधर्माभिधः स्थूलहिंसा-मृषावादा-ऽदत्तविरति, परदारपरिहारेच्छापरिमाण-दिग् विरति-भोगोपभोग व्रता-ऽनर्थदण्डविरति-सामायिकदेशावकाशिक-पौषधोपवासा-ऽतिथिसंविभागनामक-द्वादशमानुषवृतोऽस्य च समीपस्थिता इयं सद्गुणरक्तताख्या पत्नी / सम्यग्दर्शन-सम्यग्ज्ञान-सन्तोषादयः सपरिकराः अयं च महौजाः चारित्रधर्मराजस्य सम्यग्दर्शनाभिधो महामात्यः, राज्ञो राजकुमारयोश्च परम-हिताभिलाषी सन् रक्षां करोति / एते चोपशम-संवेग-निर्वेदाऽनुकम्पा-ऽऽस्तिक्यनामानोऽस्य महामात्यस्य कीर्त्तिख्यापकाः, मैत्री-मुदिताकरुणोपेक्षाख्याश्चतस्त्रः स्त्रियोऽस्य भूषणधारिण्यः परिचारिका ह्येता, इयं च सुदृष्टिनाम्नी सकलसुलक्षणोपेता गौराङ्गी सम्यग्दर्शनाऽमात्यस्य पत्नी / इत्थं सपरिकरोऽप्ययं सम्यग्दर्शनाऽमात्यो मिथ्यात्वोन्मूलनक्षमः / असौ च दर्शनमोहनीयस्योपशमे क्षयोपशमे क्षये च क्रमाद् औपशमिक-क्षायोपशमिक-क्षायिकलक्षणं रूपत्रयं धत्ते / . तथाऽयं च सद्बोधनामा द्वितीयो महामात्यो भूत-भविष्यद्-वर्तमानान् समस्तद्रव्यगुण-पर्यायान् वेत्ति / चारित्रधर्मराज्ये जैनपुरे अयमेव नीतिमार्गप्रवर्तकः / इयं च ज्ञातृता नाम्नी सद्बोधस्य पत्नी, मति-श्रुता-ऽवधि-मन:पर्यव-केवलज्ञानाभिधा एते पञ्चाऽस्याऽङ्गभूताः सखा एषां यः श्रुतज्ञाननामा वयस्य स एव सदागम इत्युच्यते / सदागमोऽयं समस्तराज्यस्थिति-मर्यादादिकारकः / मत्यवधि-मन:पर्यव-केवलाख्यश्चत्वारोऽपि मूकप्रायाः स्वकार्यसाधका एव / अत एव जैनलोकः सर्वोऽपि सदागमाज्ञयैव क्रियादि साधयति / योगोपधानोद्वहन-काल-विनया-द्यष्टप्रकारलिखन-वाचनादि-भक्त्या बहुमन्यते च / यश्चाऽक्षरमात्रा-मात्रमपि सदागमविरुद्धं भाषते मन्यते वा स जमालिवदनन्तं संसारं पर्यटति" इति सदागमः स्वयमेव वक्ति, यदुक्तं समवायांगे- "इच्चेइयं दुवालसंगं गणिपिडगं विराहित्ता तीते काले अणंता जीवा चाउरंतं संसारकंतारं परियट्टिसु" इत्यादि, एवं नंदीसूत्रादिष्वपि [ सूत्र 116 ] ततो हितैषिभिः सम्यग्-सदागमाज्ञयैव प्रवर्त्तितव्यं, तथा ये च प्राणिनो मुक्तिं लभन्ते ते केवलज्ञानाख्यपञ्चम-वयस्यबलेनेति /