________________ 54 पण्डित श्री हंसरत्नविरचिते निर्वाहेऽहङ्कर्वते व्रतमालिन्यं जुगुप्सन्ति, हृषीककितवान् वञ्चयन्ते, तपः-करणादिषु लुभ्यन्ति, वैयावृत्त्यादौ समुत्सहन्ते, परोपकारं कृत्वा कृत्वाऽपि न तुष्यन्ति, प्रमादचौरान् निजन्ति, भवभ्रमणाद् बिभ्यन्ति, दुष्टाचरिते शोकं प्रयान्ति, निजदुष्कृतं निराकुर्वते, जिनाज्ञारूपां स्त्रियं बहु मन्यन्ते, इत्यादि चेष्टितैर्मोहादि-सद्भावः स्फुट एव दृश्यते तत्कथमेते मोहादिध्वंसका इत्युच्यन्ते / " विमर्शः प्राह- "वत्स ! सत्यं तदेतत्, परं मोहादयस्तु प्रशस्ताऽप्रशस्तभेदाद् द्विधाः सन्ति, तत्राऽप्रशस्ता: कर्मपरिणामपक्षपातिनस्ते मिथ्यात्विषु भवन्ति, ये च प्रशस्तास्ते चारित्रधर्मपक्षपातिनो जैनेषु भवन्ति / " चारित्रधर्मनृपस्वरूपम् ___ एवं विविध-वार्तापराभ्यां ताभ्यां ददृशे पुरतश्चित्तसमाधानमण्डपे निःस्पृहतावेद्यां जीवपराक्रमाख्य-विष्टरनिविष्टो दान-शील-तपो-भाव-रूप-मुखचतुष्टयकलितश्चारित्रधर्मनृपः / अथ तद्-दर्शन-मुदितं प्रकर्ष विमर्शः प्राह- "वत्स ! पश्यैष चारित्रधर्मनृपो मुखचतुष्केण धर्ममार्गमुपदिशति / तद्यथा-प्रथममुखेन जनान् अभयसुपात्र-विषयं दानं दापयति, अनुकम्पादि-दानमपि न निषिध्यति / भू-कन्या-मधुलवण-रथाऽश्वादि-महारम्भकरदानं तु निषिध्यति / द्वितीयमुखेन चाऽष्टादश-सहस्रशीलाङ्गभेदकलितं शीलपालनमादिशति / तृतीयमुखेन द्वादशधा निराशंसं तपः कारयति, पञ्चाऽग्निसाधन-माघस्नानादि-लौकिकं दुष्टतपस्तु निषिध्यति / चतुर्थमुखेनाऽनित्यादि-द्वादशभावनाः समादिशति / चारित्रधर्मनृपपरिवार: - अस्य च चारित्रधर्मस्य यत्-किञ्चिदेकैकमपि मण्डपवेदिका-सिंहासनादिवस्तु तादृक् प्रभावं यदनुभावात् मोहादयो हतप्रभावा दूरत एव नश्यन्ति / पुनः पश्य प्रकर्ष! एषा नृपाभ्यण स्थिताऽतिसुन्दराऽङ्गी विरतिनाम्नी पट्टराज्ञी। इयमेव प्राणिनां मुक्तिदात्री। तथा एते राज्ञः पुरः पञ्च पुरुषास्ते सामायिक-छेदोपस्थापनीय-परिहार-विशुद्धिसूक्ष्मसम्पराय-यथाख्यातनामानो राज्ञोऽङ्गभूता वयस्याः / एते प्राणिनः पापात् निवर्त्तयन्ति / तथा एतानि दश-मानुषाणि राज्ञः परिकरभूतानि, तत्र प्रथमं क्षमा, द्वितीयं आर्जवं, तृतीयं मार्दवं, चतुर्थं मुक्तिः, पञ्चमं तपः, तस्य पुनादश-मानुषाणि परिवारभूतानि। तत्राऽनशनोनोदरिता-वृत्तिसक्षेप-रसत्याग-कायक्लेश-संलीनताख्यानि षट् बाह्यसञकानि, प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-ध्यान-कायोत्सर्गाभिधानि षट् आभ्यन्तर-सञ्ज्ञकानि / एभिर्वृतस्य तपसो माहात्म्यात् साधवः कर्मपरिणामनृपं