________________ 50 पण्डित श्री हंसरत्नविरचिते प्रवर्त्तते, ततः सद्भिर्यथाकथञ्चिदेतासां निवारणोपाये यतितव्यं इति श्रुत्वा प्रकर्षो जगाद"हे मातुल ! यत्रैता जरादयो न प्रभवन्ति एवंविधं भविष्यति किमपि स्थानम् ?" विमर्श आह- "अस्त्यनन्तसुखास्पदं निर्वृति नाम-नगरं, यत्र जरादीनां प्रचार एव न कदाऽप्यस्ति, परं तत्तु ज्ञान-दर्शन-चारित्राणामेकान्तसेवया प्राप्यते / षड्दर्शनस्वरूपं, भौतकथानकम् पुनः पृष्टं प्रकर्षेण "मातुल! यद्यपि समस्तमपीदं भवचक्रनगरं मोहराजादिभिर्व्याप्त तथापि मिथ्यात्वाऽमात्यस्य कुत्र कुत्र स्थानेऽधिकारशक्तिरिति ?" तदा विमर्श आह"वत्स ! पूर्वोक्तेषु मानवावासादि-चतुर्ध्वपि पुरेषु मिथ्यात्वस्य स्थितिरस्ति परंत्वस्य विशेषस्थितियोग्यानि तु षट्पुराण्येतानि नैयायिक-वैशेषिक-साङ्ख्य-बौद्ध-मीमांसकनास्तिकाऽभिधानि / एषु द्वितीयं पुरं प्रथम पुर एवाऽन्त र्भवति, अतः पञ्चैवोच्यन्ते / एतानि मिथ्यात्वमन्त्रिणः सदानिवासस्थानानि, परं विवेक-पर्वतस्याऽप्रमत्तताख्यशिखरवर्त्ति यत्पुरं दृश्यते तदेतज्जैनपुरं सकलशोभास्पदं, एतद्वास्तव्यजनान् पराभवितुं मिथ्यात्वाऽमात्यो न प्रभुः।" प्रकर्ष आह- "कथमेते जैनपुरवास्तव्या जना अन्यपुरपञ्चकवास्तव्यवत् मिथ्यात्वेन न पराभूयन्ते ?" विमर्शः प्राह- "पुरपञ्चकवास्तव्यास्तु स्वकपोलकल्पितं कञ्चिदुन्मार्गमवलम्ब्य प्रवृत्ताः, पश्चाच्च दिग्मूढा मार्गमजानाना विशरणा मिथ्यात्वमन्त्रिणा बहुधा विडम्ब्यन्ते, चिरेणाऽपि च निर्वृतिं न लभन्ते / जैनपुरवास्तव्यास्तु सम्यग्दर्शन-कृताधिपत्यास्त-दुक्तमार्गमवलम्बमाना अचिरेणैव निर्वृत्तिपुरमासादयन्तीति तेषां पृथग् उपादानम् / " ___ अथ विमर्शः पुरपञ्चकवास्तव्य-जनानामसमीक्षितप्रवृत्ति-संवादकं भौतकथानकमाह-शृणु प्रकर्षः- कुत्रचित् पुरे सदाशिव-नामा भौताचार्यो बधिरोऽस्ति / एकदा केनचिद् धूर्तेणाऽऽगत्य करसञ्जया कथञ्चित् तस्मै ज्ञापितं- यदुत 'रिपुवद्-व्याधिरप्युपेक्षितोऽग्रे महानाय जायते' इति नीतिवाक्याद् भविद्भिरपि नोपेक्षणीयोऽयं बाधिर्य-व्याधिः, कर्त्तव्य एव त्वरितमस्य प्रतीकार इत्युक्त्वा गते तस्मिन् सदाशिवस्तद्वचः प्रतिपद्य स्वशिष्यं शान्तिशिवं भैषज्य-पृच्छार्थं वैद्यगृहे प्रेषीत् / अथ शान्तिशिवो यावद् वैद्यगृहमागत्य विलोकयति तावत् तदवसरे वैद्यः स्वसुतं रज्जुभिर्नियन्त्र्य लगुडेन ताडयति / तद्-विलोक्य कथमसौ ताड्यते इति शान्तिशिवेन पृष्टे वैद्य आह- "यदयं बधिरोऽस्ति तदेवं बाधिर्य-प्रतिकारः क्रियते / " पुनः स्वस्त्रियाऽपि निवार्यमाणो वैद्यस्तथैवाह, पुनः प्रातिवेश्मिकादिभिरपि कारण पृष्टे