________________ 42 उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 यथाक्रममधिकाधिकं दुःखमित्येतद् दुःखं निर्णेतं केवलं केवल्येव प्रभस्तदेवं समस्तोऽपि भवचक्रवास्तव्यजनोऽकृतसन्तोष-शरणो मोहराजेन पीडितोऽस्ति इति / जरा-रोग-मृत्यु-दुर्जनता-कुरूपता-दरिद्रता-दुर्भगतास्वरूपम् / / अत्रान्तरे भवचक्रप्रसर्पिणी: काश्चित् सप्त स्त्रीविलोक्य प्रकर्षेण तत्स्वरूपं पृष्टो विमर्श आह- "वत्स ! जरा-रुजा-मृति-दुर्जनता-कुरूपता-दरिद्रता-दुर्भगताख्या: सप्तैताः स्त्रियो यथासम्भवं भवचक्रवास्तव्यजनान् समाश्रूिष्य स्व-स्व-विपाकान् दर्शयन्ति, तद्यथा-कालपिरणत्याज्ञया प्रथमा स्त्री जराख्या तारुण्यमदोद्धतानपि प्राणिनो विजित्य गलितपलिताङ्गान् प्रक्षीणसर्वेन्द्रियबलांश्च करोति / तथाऽसातावेदनीय-निर्देशात् द्वितीया रुजाऽभिधा स्त्री बल-बुद्धयादि-भ्रंशं वात-पित्त-कफादिविकारं च करोति। ज्वरा-ऽतीसार-कुष्ट-प्रमेह-शूल-च्छईि-भ्रम-श्वास-कास- कण्डूजलोदरादयोऽस्याः परिवारस्तेन सह सम्भूय नीरोगतां हत्वा जनान् पीडयति / तृतीया मृति-नाम्नी एषा तु आयुःकर्मणः क्षये विषा-ऽग्नि-शस्त्रोदक-पर्वतादिपाताऽऽकस्मिकभयांदिभिः सम्भवति / इयं स्त्रीत्वेऽपि एकाकिनी शक्र-चक्र्यादीन् महोजसोऽपि निपातयति / युव-बाल-वृद्ध-सबला-ऽबल-नृप-वराक-पण्डित-मूर्खादिषु सर्वेषु तुल्य-प्रचारा, त्रिभुवनेऽप्यकुण्ठित-विक्रमा धनस्वजनादिसर्वं परित्याज्य पुण्यपापान्यतर-सम्बलान् प्राणिनः परलोके नयति, दुर्जनताख्या चतुर्थी स्त्रीयं पापोदयात् संभूता प्राणिनां मत्सरेा-ऽसूया-मिथ्याकैतव-विश्वस्तवंचन-कृतघ्नताद्य-पलक्षणानि करोति, पुण्योदयजनितं सौजन्यं च विनिहन्ति / पञ्चमी कुरूपता दुष्टनामकर्मोदयनियुक्तैषा प्राणिनोऽन्ध-काण-खलति-कुणि-कुब्ज-वामनावनायदि हीनाधिकाङ्गान् विरूपान् वा विधत्ते / षष्ठी दरिद्रता-भिधा अन्तरायनृपादिष्टैषा द्यूतादिव्यसन-जला-ऽग्नि-चौरादि-निमित्तैर्धनक्षये प्रादु-र्भवंति / दीनता मूढता प्रायो बह्वपत्यता बह्वशिता चित्तवैकल्यम् अनुद्यमम् इत्या-दयोऽस्याः परिवारस्तेन मिलिता पुण्योदयजनितमैश्वर्यं निहत्य प्राणिनः पीडयति / सप्तमी दुर्भगता इयमपि दुष्टनामकर्मनृपादिष्टा पुण्योदयदं सौभाग्यं निवार्य प्राणिनो दुर्भगान् सर्वलोकाप्रियान् करोति। इत्येताः सप्त स्त्रियो विश्वव्यापिन्यो यथासम्भवं सर्वलोकान् पीडयन्ति / यद्यपि सामान्येन कर्मपरिणाम-कालपरिणति-स्वभाव-लोकस्थिति-भवितव्यतादिभिः कार्यजातं निष्पद्यते, तथापि विशेषापेक्षया एता अपि स्व-स्व-विपाकानां हेतुभूताः सन्त्येव तथा निश्चयनयापेक्षया यद्यप्यप्रतीकारा एतास्तथापि व्यवहारनयमाश्रित्य एतत्प्रतीकारास्तपःप्रभृतयः सन्त्येव नयद्वयाधीनं हि सर्वज्ञदर्शनं प्राय: सर्वोऽपि जनो व्यवहारमवलम्ब्य