________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 "नाऽयं शब्दशतैरपि किञ्चित् शृणोतीत्यस्य प्रतीकारः क्रियते, ततो न केनाऽपि निवारितव्यम्, इत्थमेवाऽस्य बाधिर्यं यास्यतीति' भृशं ताडयामास / / ___अथ शान्तिशिवः परमार्थानभिज्ञस्तवैद्योक्तमेवावधार्य कृतकृत्यं मन्यः स्वाश्रममागत्य गुरुं स्तम्भे दृढं बद्धवा वंशादिकम्बाभिर्बाढं ताडयितुं लग्नः, यथा यथाऽसौ पूत्करोति तथा तथा गाढं ताडयति, तदराटि श्रवणात् मिलितैः लोकैः "रे रे दुष्ट ! किमिदं करोषि?" इत्युक्ते "यूयं न जानीथ मया वैद्यमुखाद् बाधिर्यप्रतीकारोऽयं श्रुतोऽस्ति, ततः स्वाचार्यस्य बाधिर्यमपनयामि / दूरेऽपसरत यूयं, यदि च भवत्सु कश्चिदन्तराले पतिष्यति तदा तमपि ताडयिष्याम्यहमि" त्युक्त्वा पुनर्भृशं कुदृयितुं लग्नस्ततस्तं वैधेयं मत्वा लोकैवैद्यमाकार्य स्वरूपं पृष्टं, वैद्यस्तमाह- "अहो मूर्ख ! मत्पुत्रस्तु पठनमनादृत्य क्रीडासक्ततया मद्-वचोऽवगणयन् शिक्षार्थं मया ताडितो लोकैः पृष्टे च कोपवशात् मया न शृणोतीत्युक्तं, परं ताडनाद् बाधिर्यं कथं निवर्त्तते?" इत्यादि श्रुत्वा लोकैः स बहुधा निर्भर्त्सतो मोचितश्च सदाशिवः / ततो "हे प्रकर्ष ! एवं नैयायिकाद्याः पञ्चाऽपि शान्तिशिववत् यतस्ततो यत् तत् किञ्चिद् अपि श्रुत्वा तदेवाऽङ्गीकृत्योन्मार्गे धावन्तः परिभवाऽऽस्पदीभवन्ति, स्वार्थं च न साधयन्तीति / " ____ पुनः प्रकर्ष आह- "येऽमी नैयायिकाद्याः पञ्च तथा ये च जैनास्ते सर्वेऽपि तत्त्वज्ञानादेव मुक्तिं वदन्ति ततः कोऽस्ति तेषां भेदः?' विमर्शः प्राह- "शृणु वत्स ! एतेषां षण्णामपि पृथक्-पृथक् वादित्वं तथाहि - तावत् नैयायिकास्तु प्रमाण-प्रमेयसंशय-प्रयोजन-दृष्टान्त-सिद्धान्ताऽवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां षोडश-पदार्थानां तत्त्वज्ञानात् मोक्षः / प्रत्यक्षाऽनुमानोपमान-शाब्द-भेदाच्चत्वारि प्रमाणानि वदन्ति / तथा वैशेषिका द्रव्य-गुणकर्म-सामान्य-विशेष-समवाया इति तत्त्व-षट्कं प्रत्यक्षा-ऽनुमाने द्वे च प्रमाणे मन्यन्ते। उभयेषामपीश्वरो देवस्तत एकदैवतत्वात् परस्परं तत्त्वानुगमाच्च वैशेषिका नैयायिकमत एवाऽन्तर्भवन्ति / उभयेऽपि शैवा उच्यन्ते / साङ्ख्यास्तु सत्त्वं रजस्तम इति गुणत्रयं तथा प्रकृति-महदहङ्कार-स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्र-पायूपस्थ-वाक्पाणि-पाद-मन:-शब्द-रूप-रस-गन्ध-स्पर्श-पृथिव्यप-तेजो-वाय्वा-ऽऽकाशलक्षणानि चतुर्विंशति तत्त्वानि पुरुषं पञ्चविंशतितमं मन्यन्ते / तन्मते प्रमाण-त्रितयं प्रत्याक्षा-ऽनुमान-शाब्दलक्षणं, प्रकृति-वियोगो मोक्ष इति च वदन्ति / साङ्ख्या: केचित् निरीश्वराः केचिदीश्वरदैवताः केचिच्च नारायण-दैवता इति /