________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 नानाभवजन्तुनाटकानि पश्यन् सुखमास्ते / कर्मपरिणामस्तु जन्तूनां यथा कष्टं ददाति तथाऽन्तराऽन्तरा सुखलवमपि ददाति मोहराजस्तु केवलं दुःखप्रद एव / तथा कर्मपरिणामराजेन मोहराजस्य राजसचित्त-तामसचित्ताभिधे द्वे नगरे भुक्त्यां दत्ते स्तः। एतेषा-मान्तरङ्गपुराणां चित्तवृत्त्यटव्याश्च राजा तु प्राग् भवजन्तुरेव / आभ्यां तु प्रबलीभूय प्रसह्य भवजन्तुं स्वराज्याद् दूरे व्यपास्यैतद् राज्यं स्वायत्तीकृतमस्ति, न पुनः पर्यायागतं, न चाऽधुनैवाभ्यां राज्यं गृहीतमस्ति किञ्चाऽनन्ताऽनन्तः कालोऽतिक्रान्तः तत्प्रमितिं केवल्येव वेत्ति इति, ततः कर्म-परिणामनृपः सर्वोपरिवर्ती, मोहराजस्तु तत् सेनामादाय लोकान् विजित्य राज्यं वर्धयति / " इत्यादि-वार्ता-विनोदेनाऽज्ञातमार्गलङ्घनश्रमौ तौ मातुल-भागिनेयौ वेगाद् भवचक्रपुरं प्राप्तौ / वसन्तर्तुवर्णनम्, जननां मोहाधीनता / इतश्च कामदेवस्य वयस्यो वसन्त नामा सोऽपि तत्राऽऽगतः / अथ तत्रोद्यानेषु नवकिशलय-प्रसून-पुञ्ज-सुषमातिसुन्दरास्तरवः वातोत्कम्पित कुसुमस्तबकभरावनम्राः प्रतानिन्यः उन्मद-पिक-निकर-कुहूकारमुखरितोद्यान-भूमयः, अमन्दमकरन्दास्वाद मोदमत्तालिमाला-झङ्कार-रवाभिरामाश्चाऽऽरामा युगपद्-वसन्तराजस्यैकातपत्रतामाचख्युः / इत्थमुद्यान-शोभां निरीक्ष्य विमर्शः प्रकर्षं प्रत्याह- "तात! पश्यावोऽत्र वनशोभामिति / ' पश्यद्भ्यां ताभ्यां तत्र वने स्थाने स्थाने निबद्धपानगोष्ठिकाः केचित्, केचिच्च पीतमद्याः, केचिच्च मदक्षीबतया भुवि लुठन्तः, केंचिच्च प्रियामाश्लिष्य गायन्त, इत्थं प्रतिमण्डपं प्रतिकुझं विविधं विचेष्टमाना: पौरगणा व्यलोक्यन्त / ... -: अत्रान्तरे महर्द्धि-विस्तरेण वाद्यमानै- नाऽऽतोद्यनादैर्दिशो मुखरयन् चतुरङ्गसेनाभिवृत्तो धृतातपत्र चामरादि-राजचिह्नस्तत्रत्यो लोलाक्षनामा बाह्यराट्वसन्तोत्सवार्थमागतस्तमायान्तं वीक्ष्य विमर्श आह-"प्रकर्ष! पश्यैषां महामोह-रागकेशरि-विषयाभिलाष-भोगतृष्णा-कामदेवादिवशंवदानां जनानां जडत्वं वैकल्यमकार्यकारित्वं च।" .. अथ तदालोक्य प्रकर्षः स्माह- "मातुल ! कथमेते मोहादि-वशंवदा उन्मत्तीभूय विचेष्टन्ते?" विमर्शो वक्ति- "शृणु प्रकर्ष! कर्मपरिणामराजस्य पत्नी कालपरिणतिदेवी, तस्या हिम-शिशिर-वसन्स-ग्रीष्म-प्रावृट-शरन्नामानः षट्-सुभटाः सन्ति, ते च यथाक्रमं देव्या नियोगं लब्ध्वा भवचक्रपुरस्य मानवावासाख्यान्तरपुरे समागत्य स्ववारकावधि स्वाज्ञां प्रवर्त्तयन्ति / यदा च वसन्तस्य वारको भवति तदा मोहराजोऽपि वसन्तप्रियमित्रं कामदेवं स्वप्रतापवृद्धयर्थं तत्र नियोजयति इति, तदद्या-ऽपि वसन्तावसरे कामराजेनाऽऽगत्य सर्वोऽप्ययं जनो विजित्य मोहादि-वशंवदः कृतोऽस्ति / "