________________ पण्डित श्री हंसरत्नविरचिते मानवावासपुरे मोहसाम्राज्यम् / / किञ्च मोहराजादयोऽप्यन्तरान्तरा समभ्येत्य स्व-स्व-व्यापारं कुर्वन्ति, परं ते योगशक्तिभाजः सन्ति, ततो न साक्षाद् दृश्यन्ते / अहं तु विमलालोकाख्य-योगाञ्जनशक्त्या सर्वानपि तान् पश्यामि / तवाऽपि तद्-दर्शनस्य चेत् कौतुकं, तद् गृहाण त्वमपि इदं योगाञ्जनमित्युक्त्वा विमर्शेनाऽञ्जिते तेनाञ्जनेन प्रकर्षस्य चक्षुषी / अथ तदनुभावाद् व्यलोकयदसौ सर्वं यथोक्तस्वरूपं, जगाद च सविस्मयं- "मातुल ! महत्कौतुकमिदं त्वया मे दर्शितमिति / " पुनः विमर्शः प्राह- "किमेतद् वत्स ! कौतुकं ? इतोऽप्यग्रे भवचक्रनगरे महत्कौतुकं द्रक्ष्यते / " पुनः प्रकर्षः प्राह- "मातुल! अत्र वसन्तोत्सवे मानवावासस्य राज्यं कामदेवस्य दत्त्वा मोहराजस्तु तत् परिच्छदीभूय प्रस्तावे व्यापारं कुर्वन् दृश्यते / तथा रागकेशरि-विषयाभिलाषभोगतृष्णादयोऽपि स्वस्वव्यापारासक्ता विलोक्यन्ते / परं द्वेषगजेन्द्र-शोकादयस्तु न दृश्यन्ते, तत्कथमिति?" तदा विमर्शोऽवोचत्- "वत्स ! द्वेष-गजेन्द्रादयोऽप्यत्रैव सन्ति, परं साम्प्रतं निलीय स्थिताः सन्ति, स्वावसरे प्रकटीभविष्यन्ति / " पुनः प्रकर्षणोक्तं"किमेते मोहादयोऽत्राऽऽयाताः सन्ति तर्हि चित्तवृत्त्यटवी शून्या भविष्यति ! / विमर्शः स्माह एते मोहराजादयस्तु कामरूपाः सन्ति / इच्छा-वशादनन्तरूपा भवन्ति, तदेते यथाऽत्राऽपि सन्ति तथा तत्राऽपि सन्ति / मद्य-परदारगमनकारणेन महाविनाशः / अथाऽत्रान्तरे वसन्तोत्सवायातो लोलाक्षनपो हस्तिस्कन्धादवरुह्य चण्डिकायतनमध्ये प्रविश्य मद्यादिभिश्चण्डिकां सन्तर्प्य, ततः पानगोष्ठ्यामागत्य सपरिजनो निविष्टस्तत्र कनकचषकेषु मद्यमापूर्याऽऽपूर्य पातुं, परिजनं पाययितुं च प्रवृत्तस्ततः सर्वेऽपि ते लोलाक्षादयः प्रचुरासव-पान-परवशा यावद् विविधं विचेष्टमानाः सन्ति, तावद् लोलाक्षस्याऽनुजो रिपुकम्पनः मददर्पविकल स्तत्रमण्डल्यां स्वप्रियां रतिललितां नर्तयितुं लग्नः / साऽपि मदौद्धत्यात् विगलित-त्रपा-निगडा ज्येष्ठस्य परिजनादीनां च लज्जामवगण्य यावन्नरीनति तावद् रिपुकम्पनस्त्वतिमहामोहावेशाद् उद्वमन् . निश्चेष्टीभूय भुवि लुलोठ / अन्योऽपि सर्वः परिजनो मदक्षीबतया निश्चेष्टः पतितोऽस्ति, तदवसरे लोलाक्षनृपस्तां रतिललितां मदोद्धतां घूर्णमानलोचनां त्रस्तोत्तरीयां स्खलत्पदन्यासां नृत्यन्तीमवलोक्य भोगतृष्णया विवशीभूतस्तां ग्रहितुमुत्थितस्तावत् सा ज्येष्ठस्य दुरभिप्रायं मत्वा नष्टा, लोलाक्षेण च पश्चादापतत्य वस्त्राञ्चले धृता, पुनः सा तद्-हस्तमाच्छोट्य चण्डिकायतनं प्रविश्य चण्डिका-पृष्ठे निलीय स्थिता /