________________ 40. पण्डित श्री हंसरत्नविरचिते भावयति स जुगुप्सां क्षणार्धाद् दिगन्ते क्षिपति / तथा यः किल ज्ञानभक्त्या पञ्चविधस्वाध्यायादि-ज्ञानाभ्यासं कुरुते कारयति वा साहाय्यं तदनुमोदनं च कुरुते स ज्ञानावरण-दर्शनावरणाख्यौ नृपौ पराभवति / यश्च सप्तक्षेत्र्यां वित्तमुपवा वितृष्णो ज्ञानाचारादिषु वीर्य स्फोरयति सप्तमोऽन्तरायनृपस्तमुपद्रोतुं न शक्नोति / इत्थं सर्वेषामपि मोहभटानां जयनोपाया जेतारश्च सन्ति जगति, परं यथा शैले शैले माणिक्यं न स्यात्, गजे गजे मौक्तिकं न स्यात्, वने वने च चन्दनं न स्यात् तथा तेऽपि मोहसैन्यविजेतारो जगति स्तोकतरा एव भवन्ति" / . भवचक्रनगरं प्रति प्रकर्श-विमर्श-विमर्शयोः प्रयाणम् / इत्याद्यनेकनिर्णयमय्यो विमर्शोक्ता वार्ताः समाकर्ण्य पुनः प्रकर्षोऽभिदधे"मातुल! एवंविधाः समासन्नसिद्धिका भव्यजीवाः क्व निवसन्ति ?'' इति, विमर्श आह- "शृणु वत्स ! तत् निवासस्थानं अस्त्यनाद्यनन्तं समस्तवृत्तान्तोत्पत्तिभूमिः भवचक्राभिधनगरं समस्ताश्चर्यमयं समस्तबाह्यान्तरङ्गपुराणामाधार-भृतमनन्तवास्तव्यजनाकीर्णं, तच्च पुरमान्तरङ्गतया बाह्यतयाऽपि ख्यातम्, तत्र नगरे मोहनृपादीनां विजेता सन्तोषनामा महाभटो निवसति, तदुपान्ते आसन्नभवसिद्धिका निवसन्ति / " अत्र प्रकर्षः प्राह- "मातुल ! तत्राऽपि किं मोहादयो भवन्ति ?'' विमर्शः आह"भवन्ति वत्स! तत्राऽपि मोहादयो यतस्ते योगशक्तिमन्तोऽनेकानेकैः रूपैः परपुरप्रवेशं विदधते / " प्रकर्ष आह- "तं मोहादिविजेतारं सन्तोषं, तान् भव्यसत्त्वान् तद्भवचक्राभिधं च पुरं विलोकयितुं मे महत् कौतुकं तदाऽऽवां यावस्तत्र" इत्याकर्ण्य विमर्शेनोक्तं- वत्स ! आवां रसना-मूल-शुद्धिमधिकृत्य निर्गतौ, तत्- तु ज्ञातं यद् राग केशरिराजस्य मन्त्रिणो विषयाभिलाषस्य पुत्रो स्पर्शनादीनां भगिनी रसनेयमिति प्रस्तुत-कार्य-साधनान्तरं किमधिककालक्षेपेनेति यावः कृतकृत्यौ स्वगृहमेव।" तदा प्रकर्षः प्रोवाच- "मातुल! वर्षमात्रावधिकालमध्येऽद्याऽपि मासषट्कमवशिष्यते, ततो दर्शयावः कौतुकमिति / " ___ तदाग्रहात् निर्गतौ भवचक्रावलोकनार्थं मार्गे पुनः प्रकर्षेण पृष्टं- "मातुल ! श्रूयते कर्मपरिणामाभिधो राजा महावीर्यस्तत् किमसौ महामोहादपि बलवान् भविष्यति ? किं वा महामोह एव कर्मपरिणामः ?" विमर्शः आह- "कर्मपरिणामस्तु मोहराजस्य ज्येष्ठभ्राता सर्वाधिकारी, परं स तु नाटकप्रियः, केवलं मोहराजस्तु सङ्ग्रामरसिको लुण्टाकः ततश्चित्तवृत्त्यटव्यां निवासमासूत्र्य विश्वं मुष्णाति यदेव मोहसैन्यं तदेव कर्मपरिणामसैन्यं, परं स्वानुजे मोहराजे राज्यचिन्तां विन्यस्य स्वयं सपत्नीको