________________ 39 उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 नन्तकुलादिषु प्राणिनो नियोजयति। तथा दान-भोगोपभोग-लाभ-वीर्यान्त-रायाभिधैः पञ्चभिर्भटैर्युतः सप्तमोऽन्तरायकर्मराट् जीवानां दानभोगादि-प्राप्तिं रुणद्धि / _एते सप्ताऽपि राजानो मोहराजस्य कुटुम्बिनस्तथापि मोहराजाज्ञावशंवदाः सन्तो नानाविपाकैः संसारिसत्त्वान् विडम्बयन्ति / यदा च सामान्यदृष्ट्या विलोक्यन्ते तदात्वेतेसप्तैव दृश्यन्ते भटपरिकरस्तु नाऽवभासते / यदा तु विशेषमपेक्ष्य विलोक्यन्ते तदा तु एतेषां भटा एव विलोक्यन्ते न चैते दृश्यन्ते, अत एवाऽनेकान्तमतं सिद्धान्त इति जिनैरुपदिश्यते, यतः समुदायमात्रं सामान्य-विशेषप्रकाराभ्यां कथञ्चिद्भिन्नं कथञ्चिदभिन्नं च स्यात्, यथा तन्तूनां पृथक् पृथगुपादाने पटस्याभाव एव स्यात् तथा सम्पूर्णपटापेक्षया तन्तवोऽपि नोपलभ्यन्ते / यथा च एकैकस्य वृक्षस्योपादाने वनाभावः, सामान्येन वनग्रहणे पृथग् वृक्षाभावः, तथा कर्मणां मूलप्रकृत्युपादाने उत्तरप्रकृतयो भिन्ना नोपलभ्यन्ते, उत्तरप्रकृतिविवक्षायां तु मूलप्रकृतेर्नोपलम्भः / इत्थं सामान्य-विशेषभेद द्वयोपादाने सर्वं समञ्जसम् / पुनर्विमर्श आह- "एतेषु सप्तसु तृतीय-चतुर्थ-पञ्चम-षष्ठा एते चत्वारस्तु केषाञ्चिद् दुःखप्रदाः केषाञ्चिच्च किञ्चित् सुखप्रदा अपि / यथा शरीरादियोगाद् व्याधादयो हिंसां कुर्वन्ति, तथा साधुजनश्च जीवरक्षां करोति / प्रथमद्वितीय-सप्तमास्तु संपरिकराः सर्वजीवाना-मप्येकान्तदुःखप्रदा एव / मोहभटस्य जेतारः दुर्लभाः / - "इत्यादि-विमर्श-वार्ताः समाकर्ण्य प्रकर्षः प्राह- "मातुल ! सम्भवति कश्चित् भवजन्तुरीदृशो यमुपद्रोतुं समस्तमपीदं मोहसैन्यं न प्रभवति ?' विमर्श आह“सम्भवत्येव तात ! ये केचिद् भव्यसत्त्वाः सुनिर्मलमनसोऽनादि-निधनभव-समुद्रस्वरूपमवगम्य, दुःष्पापां धर्मचतुरङ्गीं प्राप्य, धीरतमाः सद्भूतभावनावशाद् अप्रमत्ततया प्रवर्त्तन्ते, तान् प्रति महामोहः सपरिजनोऽप्यकिञ्चित्कर एव स्यात् / तथा च जलबुद्बुदप्रायमायुः, क्षणभङ्गुरं च देहस्वरूपं, सन्ध्यारागप्रायं यौवनम्, आपातरम्यं विपाकदारुणं किम्पाकफलतुल्यं विषयसुखं, परिजनसङ्गमं च पक्षिसङ्गमतुल्यं विज्ञाय जीवितव्यादिषु योऽनित्यत्वं विभावयति तस्मिन् मोहनृपस्य महामूढतायाश्च रागद्वेषादीनां शोक-भय-हास्यादीनां वा बलं न स्फुरति / तथा जिनोक्तमार्ग-प्रतिपत्त्या यः स्वात्मानं विशदीकुरुते तस्मिन् मिथ्यात्वाऽमात्यस्य तत्प्रियायाः कुदृष्टेश्च न शक्तिप्रचार: स्यात् / यश्चाऽमेध्य-मूत्र-वशा-मांसादि-बीभत्सं देहं मत्वाऽशुचिभावनाभावितं मनो धत्ते, ततः सपत्नीकोऽपि पञ्चेषु श्चयूतेषु र्दूरत एव तिष्ठति / यः पुनर्निखिलाऽम्भोधिजलैरपि मलमूत्रोद्भवः स्वभावाऽशुचिदेहः कथं शुद्धयतीत्यादि