________________ पण्डित श्री हंसरत्नविरचिते तृष्णायाः स्वप्रियायाः कण्ठे न्यस्तैकबाहुः तन्मुखन्यस्तनेत्रः तन्नूपुरकङ्कणादिशिञ्जितदत्तकर्णः युगपत् पंचाऽपीन्द्रिय विषयान् भुञ्जानो विषयाभिलाषनामा सचिव: अस्य चाऽर्धाङ्गनीयं भोगतृष्णापत्नी / अनेन विषयाभिलाषेन सपत्नीकेन भक्ष्याऽभक्ष्य-पेया-ऽपेय-हिता-ऽहित-कृत्या-ऽकृत्यविवेकविकलीकृतं जगदन्धवच्चेष्टते / एनं चाऽचिन्त्य-शक्तिकं मत्वा रागकेशरिंनृपः सर्वराज्यभारधौरेयं चक्रे, स्पर्शनादीनि पञ्चाऽप्यस्याऽ-पत्यानि प्रागुक्तानि / / ___ अयं च पण्डितानपि मूर्खयति, धीरानपि कातरयति, संयमिनोऽपि विकारयति इत्यादि-'' विमर्शवचांसि निशम्य प्रकर्षः प्राह- "मातुल ! त्वदनुक्तमप्यस्य वीर्यं स्वरूपदर्शनेनैवाऽहं जानामि, यतः आकृतिरेव गुणान् ब्रूते" विमर्शः प्राह- वत्स ! घटत एव बुद्धि-विचक्षणयोः पुत्रस्य तवैतद् ज्ञानसामर्थ्य तथाप्याकर्णयावशिष्टांनामेषां मोहसत्कानां स्वरूपमिति" विमर्शो वक्ति- "हे प्रकर्ष! विलोकय मण्डपान्तराले ये एते कुविकल्प-दुष्टभावादयः स्थिताः सन्ति, ते सर्वेऽपि मोहरांजस्य भटा यद्यप्येते सगोत्रीयास्तथापि मोहराजं स्वकुलोत्तमं मत्वा स्वामित्वेन सेवन्ते / .. कर्मणां स्वरूपम् तथा य एते मोहाग्रतो निषण्णा: सप्तपुरुषा महौजसो विलोक्यन्ते, तान् ज्ञानावरणीयादीन् सप्तनृपानवेहि / तेषु प्रथमोऽयं ज्ञानावरणीयनृपः स्वाङ्गीभूतमति-श्रुताऽविधि-मन:पर्यय-केवलज्ञानावरणाख्यमनुष्यपञ्चकवृतः, पञ्चाऽपि ज्ञानान्यावृणोति प्राणिनोऽज्ञानाऽन्धान् करोति, द्वितीयोऽयं दर्शनावरणीयनृपो निद्रा-निद्रानिद्रा-प्रचलाप्रचलाप्रचला-स्त्यानर्द्धि-चक्षुर्दर्शनावरणाऽ-चक्षुर्दर्शनावरणा-ऽवधिदर्शनावरणकेवलदर्शनावरणाभिधैर्नवभिर्मानुषैर्वृतः सामान्य-ज्ञानमावृणोति / साता-ऽसाताख्य मानुषद्वययुतस्तृतीयो वेदनीयराट् सुखाऽसुखविपाकमुपदर्शयति / अयं च देव-नरतिर्यक्-नारकायुर्नामकमनुष्यचतुष्क-युतश्चतुर्थ आयुःकर्मराट् चतुर्ध्वपि गतिषु जीवान् काष्ठकीलितपादानिव करोति / पञ्चमो नामकर्मनृपः मनुष्यादिगति-चतुष्कैकेन्द्रियादिजातिपञ्चकौदारिकादिशरीरपञ्चकौ-दारिकादित्रिका-ऽङ्गोपाङ्गौ-दारिकादि बन्धनपञ्चदशकौदारिकादिसङ्घातनपञ्चक-वज्रर्षभादिसंहननषट्क-सम-चतुरस्रादि संस्थानषद्कं-वर्णपञ्चक-गन्धद्वय-रसपञ्चक-स्पर्शाष्टक-मनुष्याद्यानुपूर्वीचतुष्कखगतिद्वय-त्रसंदशक-स्थावरदशकोद्योता-ऽगुरु-लघूच्छ्वाऽसातपो-पघात-पराघातनिर्माण-तीर्थकृन्नामकर्मलक्षणैस्त्र्युत्तरशतमितैर्मानुषैर्वृतोऽयं जीवान् नानारू-पान् कृत्वा नाटयति / गोत्रकर्मनामा षष्ठोऽयं नृपः उच्चैर्गोत्र-नीचैर्गोत्राख्यभटद्वय-युतोऽ