________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 37 पस्थन्यस्तकरयुगलं नृत्यं कारितः, ब्रह्मा च सावित्र्याख्यायां स्वपुत्र्यां प्रलो-भितः, विष्णुश्च गोपवधूजनपादपतनादिभिर्बहुधा विनाटितः, एवं इन्द्र-चन्द्रादयः सर्वेऽपि निर्बीजीकृत्याऽनेन स्त्रीणां दास्यविधायिनो विहिताः, यच्च कुलवध्वोऽपि हीनजातिं कुरूपं नटविटप्रायं पुरुषं भजन्ते, यच्च कुलीना अपि पुमांसः कुलटां दासीं गणिकां विधवामधम जातिप्रायां स्त्रियं रमन्ते, यच्च जराजर्जरिताङ्गा अपि स्तम्भनवाजीकरणादिभि: कामसेवामभिलषन्ति तदेतस्य कामदेवस्याऽचिन्त्यशक्ति-विलसितं, पुनर्मोहनृपस्य पृष्ठे यानि पञ्च मानुषाणि सन्ति तेषां मध्ये हासाभिधोऽयं प्रथम मानुषं तुच्छता चाऽस्य पत्नी, द्वितीयं चाऽरति म इयं च सर्वस्य जनस्योद्वेगं जनयति, एतत् तृतीयं भयनामकं समीपे चाऽस्य हीनसत्त्वतांख्या पत्नी, चतुर्थं शोकाभिधः पुमान् य आवयोदृष्टपूर्वस्तामसचित्तपुरात् साम्प्रतं आयातो दृश्यते, पार्श्वेऽस्य दीनताख्या पत्नी अस्य वशात् प्राणिनः शिरःस्फोटा-ऽऽक्रन्द-हृदयघातादिकं कुर्वते, पञ्चमं त्वेषा जुगुप्साभिधा स्त्री, अस्याः सङ्गात् स्वं मलमूत्रादिभृताङ्गा अपि जीवा दूरस्थं दुर्गन्धिमल-मूत्रादि दृष्ट्वा मुखं पिदधते, नक्रं च मोटयन्ति, थूत्कुर्वते, एतानि पञ्चाऽपि स्वाश्रितान् जीवान् इहलोकें स्वविपाकान् दर्शयित्वा परत्र पापिपञ्जरादौ क्षिप्त्वा भृशं पीडयन्ति / पुनर्विलोकय यानि चाऽमूनि मोहस्य परितः षोडश बालकानि दृश्यन्ते तानि सर्वाणि कषायसङ्घकानि, तेषां प्रथमानि महामोहासैनि चत्वारि क्रमेण क्रोधमान-माया-लोभ नामकानि अनन्तानुबन्धीति सामान्याऽपरनामकानि, एतदाश्रिताः प्राणिनः सम्यक्त्वसङ्गं नाऽऽसादयन्ति / इतोऽन्यानि चत्वारि क्रोध-मान-माया-लोभाख्यानि . अथाऽप्रत्याख्यानिकेति सामान्यनामकानि, एतद् वशात् प्राणिनो देशविरतिरूपं न प्राप्नुवन्ति, अपराणि च चत्वारि क्रोधादीनि प्रत्याख्यानिकेतिसामान्याभिधानि एतानि सर्वविरत्याख्यपुरप्रस्थाने रोधकारीणि, अन्यानि चत्वारि डिम्भानि क्रोधादीनि सज्वलनेति सामान्याभिधानि, तानि सर्वविरतिस्थप्राणिनां अतीचाराद्युपप्लवकराणि / एवमेषु षोडशसु चत्वारि क्रोधाख्यानि, चत्वारि च मानाख्यानि, एवमष्टावपि द्वेष गजेन्द्रापत्यानि अविवेकिताप्रसूतानि, यानि च चत्वारि मायाख्यानि, चत्वारि च लोभाख्यानि तान्यष्टावपि रागकेशरिराजस्यापत्यानि मूढता कुक्षिजातानि, एते. षोडशाऽपि कषाया महामोहराज्यपौत्रा: सामान्येनेदं कषायस्वरूपं विशेषतस्तेषामेकैकस्याऽचिन्त्यशक्तिकं तं को निरुपयति ?. विषयाभिलाषस्वरूपम् ... अयं च रागकेशरिणः पुरतस्ताम्बूलमण्डितमुखः लीला-कमलमाजिघ्रन् भोग