________________ पण्डित श्री हंसरत्नविरचिते निर्गता संसारसमुद्रगामिनी तन्द्रा-निद्राभिधप्रौढतटद्वयोपशोभिता विकथाश्रोत:पतितकषायपूरमज्जदनन्तसंसारिसत्त्वसन्दोहा. विविध-विषयव्यापारवीचिमालामिलद् भावहायादियादोगणैर्दुरवगाहा प्रमत्तता महानदी दृष्टा / तस्या अनवधानताभिधपुलिने चित्तव्याक्षेपाभिधमहामण्डपे तृष्णाख्याया विशालवेदिकाया उपरि मतिविपर्ययाभिधसिंहासनासीनं महामोहनृपं विलोक्य विमर्श प्रति प्रकर्षः प्राह- "हे मातुल ! महाप्रतापभासुरोऽयं महामोहराजो दर्शनादेवोपलक्षितो मया, इदानीं माम् उपलक्षयैतस्य सर्वसभासदान्,'' विमर्शः प्राह- "वत्स ! सावधानीभूय शृणु तावत् मोहराजस्य समीपे यः कृष्णाङ्गः स्थितोऽस्ति तं मिथ्यादर्शनाभिधानं महामोहराजस्य महामात्यं विद्धि / अयं सर्वसैन्यस्य चिन्तको मोहराजस्य सर्वां राज्यस्थितिं प्रवर्त्तयति / अस्याऽऽज्ञावशंवदा जीवा रागादिभिर्यथेच्छं विनाट्यन्ते, तथा लोके हरि-हरादिकुदेवेषु या देवत्वबुद्धिस्तथाऽष्टादशदोषनिर्मुक्तेषु सर्वज्ञेष्वदेवबुद्धिर्या च परिग्रहारम्भमग्नमिथ्याप्ररूपक गृहिलिझ्यादिषु गुरुत्वबुद्धिः, पञ्चमहाव्रताराधकशुद्धोपदेशकसाधुषु चाऽगुरुत्वबुद्धिः, तथा सुवर्ण-स्त्री-भूमि-लवणादिदानपञ्चाग्निसाधनाऽजामेध-माघस्नानादिषु या धर्मबुद्धिर्या च सम्यक्त्व-देशविरति-सर्वविरत्यादिष्वधर्मबुद्धिस्तथा सर्वज्ञोपदिष्टमार्ग विहायाऽन्येषु परदर्शनपाखण्डिकनिह्नवादिषु यः पक्षपातः, यच्च जीवाऽजीव-पुण्य-पापाऽऽश्रव-संवर-निर्जरा-बन्धमोक्षाभिधतत्त्वानां सम्यगश्रद्धानम् एतत् सर्वमप्यस्याऽचिन्त्यशक्तेर्विजृम्भितं, तथा मोहराजस्य दक्षिणाङ्गेऽभ्यर्णं निविष्टोऽसौ महाबाहुर्महामोहस्य ज्येष्ठपुत्रो रागकेशरी नृपः समीपस्थैः कामराग-स्नेहराग-कुदृष्टि-रागाख्यै एभिस्त्रिभिनृपैर्युतः, या चाऽस्य समीपे निविष्टा साऽस्य राज्ञी मूढतादेवी, असौ रागकेशरी एंभिर्नूपैर्मूढतादेव्या च सहितोऽसद्वस्तुष्वपि प्राणिनां प्रीतिमुत्पादयति, तथा चाऽस्य लघुभ्राता स्वपितुर्महामोहस्य वामानोपान्ते निविष्टो द्वेषगजेन्द्रराजः प्रबलपराक्रमी यश्चिरकालीनमपि स्नेहं क्षणाद् वित्रोटयितुं क्षमः, पितुः परमवल्लभोऽसौ / अस्य राज्ञी अविवेकिता-देवी, सा च रौद्रचित्तपुरे दुष्टाभिसन्धिनृपगृहेऽस्तीति शोकेनोक्तमभूत् / '' प्रकर्षः प्राह- "तत् तु मया स्मर्यते / " काम-हर्ष-शोक-जुगुप्साकषायादीनां स्वरूपम् / पुनर्विमर्शः प्राह- "अयं मोहराजस्य पृष्ठे महासुन्दराकृतिर्धनुष्मानपञ्चकव्यग्रहस्तः पुरुषवेद-स्त्रीवेद-नपुंसकवेदाख्य-पुरुषत्रयान्वितः समीपस्थया रतिनाम्न्या स्वप्रियया प्रवर्धितोत्साहः कामदेवः, येन स्वौजसा विनिर्जित्य महेश्वरः पार्वत्यग्रे शीर्षो