________________ - 35 उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 विलोक्यतेऽस्याः प्रभवहेतूनां मोहादीनामैश्वर्याभोगमिति पुनस्ताभ्यां पृष्टम्- "अहो महाभाग ! क्वाऽस्ति साम्प्रतं मोहराजस्य सेनानिवेश इति?" तदा मिथ्याभिमानेन माऽभूतां चारित्रधर्मादीनां हेरिकावेतावित्याशक्य न किञ्चिद् बभाषे। तदा प्रकर्षः प्राह"मातुल ! कृतमनेन प्रश्नेन, गम्यतामग्रे ज्ञास्यते स्वयं तच्छुद्धिरिति" चलितौ क्रमादायातौ तामसचित्तपुरोपान्ते तत्पुरमपि शून्यमव-लोक्येतस्ततः पश्यद्भ्यामेकः श्यामवदनः पुमानदर्शि / अथ तमनुसृत्य तदभिधां पप्रच्छतुः स पुमानाह- "अहो वैदेशिकौ ! शोक इति मम नाम, तामस-चित्ताख्यमिदं पुरं, द्वेषगजेन्द्रनामा एतत्पुराधीशः सर्वं स्वपरिजनमादाय सन्तोषेण योद्धं गतोऽस्ति / किञ्च द्वेषगजेन्द्रराजस्य पत्नी अविवेकिता साऽत्यन्तं श्वसुरकुलभक्ता महामोहादीनां परमवल्लभाऽस्ति / यात्राप्रस्थानसमये महामोहपत्न्या महामूढताभिधायाः श्वश्वास्तथा रागकेशरिपल्या मूढताया ज्येष्ठयातुः स्नेहातिरे-कात् सहाऽऽगन्तुकामामपि तामापन्नसत्त्वां मत्वा द्वेषगजेन्द्रनृपो निवर्त्य रौद्रचित्तपुरे स्वसेवकस्य दुष्टाभिप्रायनृपस्य गृहे मुक्तवान् / तथा क्रमेण पूर्वे काले वैश्वानराभिधः सुतः प्रसूतोऽभूत्, पुनरिदानीमप्यन्तरांतरायातद्वेषगजेन्द्र-संयोगादन्योऽपि पुत्रः शैल-राजाभिधस्तया जातोऽस्तीति श्रूयते / " - अन्तरङ्गपुरे मिथ्यादर्शन-राग-द्वेषादीनां परिचयः / ...अत्र संसारि जीवो वक्ति-हे अगृहीत सङ्केते ! यत् पूर्वं नन्दिवर्धनभवमध्ये वैश्वानरजन्माधिकारे दुष्टाभिप्राय-नृपालये अविवेकिता केनचित् प्रयोजनेनायाता इत्यूचे, तत्प्रयोजनं त्वेतदत्र स्पष्टीकृतम् / अथाऽत्र प्रज्ञाविशालया संसारिजीवं प्रति पृष्टम्"अहो! भद्र! त्वया रिपुदारणभवे विचक्षणसूरिमुखादविवेकितादिस्वरूपं श्रुत्वा किमपि श्रद्दधे ?" स प्राह- "या तदाऽज्ञानवशात् सर्वमपि तदवाक्यं मिथ्याजल्पितं मेने / " पुनरगृहीतसङ्केतयाऽग्रेतन सम्बन्धं पृष्टः संसारि जीवः प्राह-अथ ताभ्यां विमर्श-प्रकर्षाभ्यां शोकं प्रति पृष्टं- "यदहो नृपेणाऽत्र त्वं पुरारक्षकतया नियुक्तोऽसि किमुताऽन्यस्मै कार्यायेहागतोऽसीति?" शोकः प्राह- "अत्र पुररक्षार्थं तु नृपेण मतिमोहनामा महाभटो नियुक्तोऽस्ति, परं मम तु मतिमोहेन सह सख्यमस्ति, ततस्तत्मिलनायाऽधुना चित्तवृत्त्यटव्यां प्रमत्ततातटिन्याः कूले महामोहादीनां स्कन्धावारो-ऽस्ति ततः समायातोऽस्मि' इत्यादि शोकोक्तमार्गेण महामोहस्कन्धावारस्थितिनिर्णयमासाद्य शोकं प्रति जोत्कारं विधाय पुरः प्रचलितौ तौ मातुल-भागिनेयौ क्षणात् प्राप्तौ चित्तवृत्त्यटव्यां, दृष्टा च साऽटवी दुरवगाहा विलोमवृत्तानां पदे पदे दुःखावहा, सम्यक्प्रवृत्तानां च सुखास्पदीभूता, तस्यां च राजसचित्त-तामसचित्त-पुरयोरन्तरालात्