________________ " पण्डित श्री हंसरत्नविरचिते जडस्य रसनाऽधीनता ___एवं प्रवर्त्तमानस्य तस्य लोके प्रशंसाऽभूत् / जडस्तु रसनालोलताधीनो मृगयाद्यकार्यं कुर्वन् लोकेऽपवादपदं जातः / एकदा जडेन स्वमातुरयोग्यतायाः पुरः रसनाप्राप्तिवार्ता कथिता, तदा तयोक्तं- "वत्स! इयं वधूः त्वया सम्यग् आश्वासितव्या यथा यथा लोलताऽऽदिशति तथा तथा कृत्वा पोषिता सती भृशं ते सुखप्रदा भविष्यतीति" मातुरादेशाद् विशेषेणाऽभक्ष्याऽपेयादिदानेन लोलतावशो जडस्तां पुपोष / . एकदा विचक्षणेनाऽपि स्वमातुश्चारुतायाः पुरो रसनागमनं स्वस्यानादरत्वं च कथितं तदा चारुता प्राह- "वत्स ! अस्यामज्ञातकुलशीलायां स्त्रियामनादर एव श्रेयान्, परन्त्वेतस्या येन तेनोपायेन मूलशुद्धिं विलोकय" इति मातृवचः प्रतिश्रुत्य विचक्षणेन रसनाया मूलशुद्धयर्थं विमर्शाख्यो बुद्धेर्धाता स्वशालकः तथा बुद्धिजातः स्वपुत्रः प्रकर्षः एतौ द्वावपि मातुल-भागिनेयौ नितरां निपुणौ मत्वा एकं वर्षमवधीकृत्य प्रेषितौ / अथ रसनामूलशुद्ध्यर्थं गच्छद्भ्यां ताभ्यां भूयांसि बाह्यनगराण्यवलोकितानि, तत्र क्वाऽपि शुद्धिर्न लब्धा, तदाऽन्तरङ्गनगराणि पश्यन्तौ तौ राजसचित्तपुरं प्राप्तौ, तन्नगरं महासमृद्धिपूर्णं वास्तव्यजनरहितं च दृष्ट्वा विमर्शः प्रकर्ष प्रति उवाच- "यदि एतत् पुरं जनरहितमपि समृद्धिपूर्ण विद्यते, नूनं तदस्य पुरस्य भर्ती कोऽपि बलवान् भविष्यतीति / " विमर्श-प्रकर्षयोः रसना शुद्धयर्थं गमनम् अत्रान्तरे दूरात् कश्चित् पुमान् अवलोकितः, तत्समीपे गत्वा पृष्टं ताभ्यां शून्यनगरस्वरूपम्, स प्राह- "राजसचित्तमिदं नगरं, अत्र रागकेशरी राजा, स तु सर्वं स्वसैन्यं पौरजनं चाऽऽदाय स्वपित्रा महामोहेन सह सन्तोषमभिषेणयितुं गतोऽस्ति / तेषां महामोहादीनां सन्तोषेण सह युध्यतां गतोऽनन्ताऽनन्तः कालस्तथापि न कश्चित् प्रतिनिवर्त्तते / अहं तु मिथ्याभिमान नामा रागकेशरिनृपस्य भटः, कियन्तं कालं तत्र सैन्येऽभूवं, परं नृपाज्ञया नगररक्षार्थमिहाऽऽगत्य स्थितोऽस्मि / तदा विमर्शेन पृष्टं- "अये! सन्तोषेण सह रागकेशरिणः किं वैरकारणमिति?" मिथ्याभिमानः प्राह- "रागकेशरिनृपस्य विषयाभिलाषनामाऽमात्योऽस्ति तेन स्वराज्ञः प्रतापवृद्धयर्थं स्पर्शन-रसना-घ्राणचक्षुः-कर्णाभिधानि स्वस्याऽपत्यानि जगद्विजयायाऽऽदिष्टानि, तैः शक्रादयोऽपि निर्जित्य स्वस्य राज्ञो वशंवदाश्चक्रिरे / अथ सन्तोषस्तु कदा कदाऽपि तानि पराभूय तद्वशीकृतभवजन्तून् स्वाज्ञा-वशंवदान् कृत्वा मुक्तिपुरे प्रस्थापयती-त्येतद्वैरकारणमिति'' श्रुत्वा विमर्श-प्रकर्षाभ्यां चिन्तितं- "यदहो ! रसनाया मूल-शुद्धिस्तु लब्धा, तथापि