________________ 33. उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 पत्नी स्वचारुता विचक्षणश्च पुत्रः, अशुभोदयस्य तु अयोग्यता पत्नी जडनामा पुत्रः। तत्र विचक्षणस्तु स्वभावादेव धर्मी, धीरः, सत्यवादी, जितेन्द्रियो, विनीतः, क्षमी, देवगुरुपूजकः, अनेकगुणाकीर्णः, जडस्तु विलोमचारी, पापी, मृषाभाषी, मायावी, इन्द्रियलोलुपोऽविनयी, क्रोधी, देवगुरुनिन्दकः गर्वाऽसूयाभिधाद्यसङ्ख्य-दोषाकीर्णः। एवं तौ द्वावपि भ्रातरौ प्रवर्धमानौ यौवनं प्राप्तौ / ___ अथ निर्मलचित्तनाम्नि अन्तरङ्गनगरे मलक्षयो राजा, तस्य सुन्दरता राज्ञी, तयों: पुत्री बुद्धि नाम्नी / साऽन्यदा विचक्षणेन परिणीता तया सह विलसन् विचक्षणः स्वं धन्यं मन्यमानः सुखेन तस्थौ / एकदा मलक्षयनृपेण बुद्धयाः कुशलोदन्तज्ञानार्थं स्वपुत्रो विमर्शनामा प्रहितो बुद्धि-सविधं समागतः / अत्राऽवसरे बुद्धयाः प्रकर्षनामा पुत्रः प्रसूतः / अथ विमर्शोऽपि भगिनी-भागिनेययोः बुद्धि-प्रकर्षयोः स्नेहात् तत्रैव तस्थौ / अन्यदा विचक्षणो जडश्च द्वावपि सुखविलास-नाम्नि उद्याने क्रीडार्थं गतौ / तत्र दन्तरूप-कुन्दवृक्षशोभां विलोकयतः तत्र ताभ्यां वृक्षान्तरे एकां दासी पुरस्कृत्य विचरन्ती एका रक्तवर्णाऽतिचपला स्त्री दृष्टा, जडस्तु तां दृष्ट्वा मोहं प्राप्तः, विचक्षणस्तु दास्या सह वने भ्रमन्ती एकाकिनी अतिचपलाऽसौ कुशीलेति विमृश्य जडं हस्तेनाकृष्य गन्तुं प्रवृत्तः / एवं तौ यान्तौ वीक्ष्य सा स्त्री मूर्छा प्राप्ता, तदा तस्या दासी पूत्कुर्वन्ती विचक्षण-जडयो: पार्श्वमेत्य प्राह- "अहो सुपुरुषौ ! युवां मत्स्वामिनीमवगण्य चलितौ तद्दुःखात् सा मूर्च्छिता, तदाश्वासयतां युवां तत्राऽऽगत्येति'। तद्वाक्याजडो विचक्षणमाकृष्याऽगतस्तत्पार्श्व, कृता नाम पृच्छा, पृष्टं च स्नेहकारणम् / अथ दासी प्राह- "इयं रसनाभिधा मत्स्वामिनी लोलतेति च मम नाम, शृणुतां अस्माकं स्नेहकारणं / पुरा युवां कर्मपरिणाम-लोकस्थिति-प्रमुखाणां बलादसंव्यवहारनगरान्निर्गत्यैकेन्द्रियपुरे कियन्तं कालं स्थित्वा यावत् प्रभृति द्वीन्द्रियपुरे समागतौ तावत् प्रभृति मत्स्वामिनी कर्मपरिणामनृपेण वां परिणायिताऽस्ति / / - अहमपि तदनुवर्तिनी भवत्समीपस्था एवाऽभूवम् / अद्य तु चिरन्तनसम्बन्धं विस्मार्य युवां चलितौ तदुःखेन मूर्च्छितैषा इत्यादि तद्वाक्यैर्लुब्धेन जडेन तया दास्या सह सा स्त्री समाश्वास्य प्राणप्रिया प्रणयेनाऽऽदृता, विचक्षणेन तु कर्मपरिणामसम्बन्धिनीयं रसना ततो न स्नेहकारणोचितेति मत्वा मन्दस्नेहेन लोकरीत्या-ऽऽदृता, लोलता दासी तु तेन सर्वथाऽपि दूरीकृता। अथ जडस्तु लोलताप्रेरितो द्राक्षा-गुडशर्करा-दुग्ध-दधि-घृत-मधु-मद्य-मांसादिभिर्विविधाऽशन-पान-खादिम-स्वादिमैनित्यं रसनां लालयन् प्रमोदमाप्नोति, विचक्षणस्तु लोकरीत्या रसनाया आहारादिकं ददाति, परं लोलतां तु दूरत एव त्यजति /