________________ पण्डित श्री हंसरत्नविरचिते __अवशेष पुरे नरकेशरिनृपेण लोकोक्त्या एवं श्रुतं यत् 'नरवाहननृपाङ्गजो रिपुदारणकुमार: सकलविद्या-पारीण:, कलापात्रमस्ति, ततस्तेन वसुन्धरा-देवी कुक्षिजा नरसुन्दरी स्वकन्या पृष्टा "वत्से ! यदि तुभ्यं रोचते तदा रिपुदारणेन सह ते विवाहः क्रियते," तदा सा प्राह- "तात ! भवतु एवं, परं एकवारं सदसि तद्विद्यां परीक्ष्याऽहं वरिष्यामि," इति तद्वाक्यमङ्गीकृत्य नरकेशरीनृपो बहुपरिवारान्वितो नरसुन्दरीमादाय सिद्धार्थपुरमायातस्तवृत्तान्तश्रवणेन प्रमुदितो नरवाहनो यथोचित-प्रतिपत्त्या नरकेशरिनृपं सच्चकार / ___ अथ सुमुहूर्ते मत्पिता नरवाहननृपो मां सहाऽऽदाय विवाहमण्डपे सभां पूरयित्वा निविष्टः, तदवसरे पित्राऽऽकारितो महामतिर्नाम मत्कलाचार्योऽप्यागत्य नृपान्तिकमुपविष्टः, नरकेशरिनृपोऽपि सपरिकरस्तत्राऽऽगतः / अत्रान्तरे वसुन्धराराज्ञी पुरस्कृत्य सखीवृन्दवेष्टिता रूपसौन्दर्यश्रिया रम्भामुपहसन्ती नरसुन्दरी सभायामागत्य ममाऽभिमुखमुपविष्टा, तां दृष्ट्वा हर्षितौ मे मातापितरौ, अहं तु कटाक्ष-वीक्षणादेव प्रमोदोत्पुलकोऽभूवम् / अथ नरसुन्दरी प्राह- "अहो कुमारशेखर! क्रियतां कश्चिच्छास्त्रवार्ता विनोदः, प्रीयन्तां सभाजनोऽयं त्वद्वाक्-पीयूष पानेनेति / " सभ्याः सर्वेऽप्यहो ! सकल-शास्त्र-पारदृश्वा कुमारः, किं किमभिधाष्यति इति विस्मयात् श्रवणोत्सुका जाताः / 'मया तु तदा विद्याः सर्वा विस्मारिता। अधुनाऽत्र किमुत्तरं दास्ये इति भयात् समकालोत्पन्नोत्कम्प-स्वेद-रोमाञ्च-जाड्यः शुष्यत्तालु-गलकस्तत्कालमेव मृतावस्थोऽभूवम् / तद्विलोक्य नरसुन्दरी-नरकेशरि-प्रभृतयो विलक्षा जाता:, मत्पित्रा च. कलाचार्याभिमुखं विलोक्य पृष्टं- "किमेतत् सकलशास्त्र-विशारदस्य कुमारस्य क्षोभकारणं?" कलाचार्यः प्रच्छन्नवृत्त्या प्राह- "राजन् ! अयं कुमारस्तु मृषावादा-ऽभिमानयो विलसिते विशारदोऽस्ति परं विद्यायास्तु गन्धमात्रमपि न जानाति,'' इत्युक्त्वा तेन सर्वमपि मच्चरितं नृपाग्रे कथितं, तच्छ्रुत्वा लज्जावदनो नृपः "श्वः कला-परीक्षणं करिष्यते" इत्युक्त्वा सभां विसृष्टवान् / लोकः सर्वोऽपि मामुपहसन् निर्गतः, अहमपि जनेषु गतेषु क्षणान्तरे सावधानो भूत्वा श्यामवदनः सन् गृहमायातः, महादुःखेन स दिवसोऽतिक्रान्तः / .. अथ रात्रौ मम पुण्योदयेन विमृष्टं- "यदहो ! न घटते मदाश्रितस्याऽस्य रिपुदारणस्यैवं मानहानिः, मयि विद्यमानेऽपि चेदेनं मुक्त्वा नरसुन्दरी किञ्चदन्यं वरं वृणुयात् तदा किं मम साहाय्येनेति ? नरकेशरि हृदयमधिष्ठितस्तदनुभावाच्च 1. अहं तु L1, L2, V, D