________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 स्यादिति" श्रुत्वा मयोक्तं- "तात ! किमेषोऽस्मत्तोऽप्यधिकं कलावान् ? अहं तु तृणवदेनं गणयामीति'' श्रुत्वा मौनमाधाय पुनः पित्रा रहसि कलाचार्याय कथितं, "यदयं रिपुदारणो मानशीलस्ततो विनय-प्रणिपातादिकमकुर्वाणोऽपि भवद्भिः नोपेक्षितव्यो विभाव्य सम्यक् पाठयितव्यः" / अथ मां गर्वाध्मातमपि कलाचार्यः सादरं कला: शिक्षयति, परं सन्निपातरोगिणि परमान्नवत् ताः सर्वा अपि कला मयि दोषवृद्धये भवन्ति / एकदा गुरुणा शिक्षार्थमुक्तोऽहं- "वत्स ! त्वं पयःपानेन सर्व इव कलाशतेन विनीयमानोऽपि कथं दौर्जन्यविषं न त्यजसि?'' इत्याकर्ण्य मया कलाचार्यस्तथा निर्भर्त्तितो यथा पुनरुत्तरमपि वक्तुं न शेके, तदारभ्य कलाचार्येण स्वयं शिक्षानुचितोऽयमिति मत्वा "नाऽस्य किमपि केनाऽपि शिक्षाक्षरं वाच्यमिति" विद्यार्थिनोऽपि निषिद्धाः / " ___ अथ ततः प्रभृति निरंकुशोऽहं कदापि गुर्वासने उपविशामि, कदाचिद् गुरोरवर्णवादं जल्पामि, यदि च गुरुः पृच्छति तदा मृषावादानुभावात् साक्षाद् दृष्टापराधमप्यपलपामि, एवं नित्यापराधोद्विग्नेनोपाध्यायेनैकदा उक्तं- "भो राजपुत्र ! यदि ते विद्यया सह कार्यमस्ति तर्हि दुर्विनीतत्वं त्यक्त्वा कलाभ्यासं कुरु, नो चेद् गृहं याहीति" तद् वाक्यात् समुद्भूतकोपः कलाचार्यं नानाऽऽक्रोशवचनैः सन्तM गृहमागतोऽहं पृष्टश्च नृपेण- "वत्स! त्वया कियदधीतं?" तदा मया मृषावादमाहात्म्यात् भाषितं- "यत् व्याकरण-तर्क-छन्दो-ज्योति-र्धनुर्वेदादि-सर्वशास्त्राण्यधीतानि, साधिताश्च द्वासप्ततिरपि कला मये'' त्याकर्ण्य हृष्टचित्तेन पित्रा कलाचार्याय बहु प्रीतिदानं दत्त्वा पुनर्मां प्रत्युक्तं-"वत्स! प्रत्यहं कलाचार्यगृहे गत्वा विद्याः स्मर्त्तव्या यथा सुशिक्षिता भवेयुः।" / अथ तथेत्युक्त्वा निर्गतोऽहं पितुः सकाशात्, अग्रे गत्वा पृष्टो मया मृषावादो चाऽतः "भ्रातः! कुतस्त्वयेदृग्विधाऽचिन्त्यशक्तिर्लेभे यत् तवानुभावात् मूर्खा अपि पण्डितायन्ते, निर्गुणा अपि सगुणीभूय विचरन्ति ?' मृषावादः प्राह- "शृणु मित्र ! - राजसचित्तनगरे रागकेशरी नृपो मूढता तद्राज्ञी तयोः पुत्री मायानाम्नी अचिन्त्य-प्रभावा, सा मया भगिनीत्वेन प्रतिपन्नास्ति, तत्-प्रसादात् मयापीदृशी शक्तिर्लब्धास्ति, यदि तवाऽपीदृग्शक्तिलाभे वाञ्छाऽस्ति तदा विचर पण्याङ्गना-गृहेषु, क्रीड द्युतकारशालासु, सेवस्वाऽन्यान्यपि पानगोष्ठ्यादि-तथाविधस्थानानि, तत्राऽहं मायामपि ते दर्शयिष्यामि / " .. अथ तद्वाक्यमङ्गीकृत्याऽहं निरन्तरं तेषु तेषु यदृच्छया खेलन् शिक्षितः परममायाविताम्, प्रवर्द्धिता च मृषावादशक्तिः, इत्थं व्यतीतानि कियन्ति वर्षाणि / .