________________ ( अधिकार - 2) अथ संसारिजीव आह- "हे अगृहीतसङ्केते ! सिद्धार्थपुरे नरवाहनो राजा, तस्य विमलमालती नाम्नी देवी, तस्याः कुक्षौ अवतीर्णोऽहं, क्रमेण सुमुहूर्ते पुण्योदयेन सह प्रसूतः, राज्ञा महोत्सवं कृत्वा रिपुदारण इति मदभिधा चक्रे / क्रमेण रूप-सौभाग्यश्रिया सह प्रवर्धमानोऽभूवम् / / रिपुदारणस्य मानेन मृषावादेनसह मैत्री गर्विष्ठता च अथ नन्दिवर्द्धनभवे अविवेकितानान्मी ममोपमाता बभूव, पुनस्तयाऽत्र भवेऽपि मजन्मावसरे एकः पुत्रः प्रसूतः शैलराज इति तन्नाम दत्तं, स च जाति-लाभकुलैश्वर्य-बल-रूप-तप:-श्रुत-मदलक्षणैः अष्टभिः शिरभिरलड्कृतः प्रववृधे / क्रमेण तेन सह मम प्रीतिर्जाता / सोऽपि देहाऽभेदेन मामाश्रितः / ततः प्रभृत्यहं मातपितृप्रमुखवृद्धानपि नाऽनमम् / आकाशदृष्टिरेवाऽचलं, स्वस्य जात्यादि-गर्वेण सर्वं जगदपि तृणवदगणयम् / यावत् कश्चित् किमपि वक्ति तावत् तं निष्कारणमपि निरभर्ल्सयम् / एवंविधं मां वीक्ष्य पित्रा प्रधानादीन् प्रत्यादिष्टं- “यत् मानधनोऽयं कुमारस्ततो यद् यद् आदिशति असौ तत्तदेवाऽङ्गीकरणीयं, नाऽस्य वचो विलङ्घनेन मानभङ्गः कार्यों भविद्भिरिति,'' ततः प्रधानादयः सर्वेऽपि मदाज्ञा-वशंवदा मां पितुरप्याधिकं मन्यन्ते स्म, तदा मया ध्यातं यदहो ! शैलराजानुभावादेते सर्वेऽपि मम वशंवदा जज्ञिरे, तत् महानुभावोऽयमिति / अथ मामित्थं वशवर्त्तिनं मत्वा शैलराजेन स्तब्धचित्ताख्यं विलेपनं मद्-वक्षसि प्रदत्तं, तदनुभावाच्चाऽहं काष्ठकील इव पाषाणस्तम्भ इव स्तब्धो जातः / अथैकदाऽहं क्लिष्टमानसाख्यमान्तरङ्गं पुरं प्राप्तः, तत्र दुष्टभावनृपस्तस्य जघन्यता देवी, तयोः पुत्रो मृषावाद नामा छद्म-पैशुन्य-द्रोहादिभयान्वितो मया दृष्टस्तेनाऽहम् / सादरं भाषितो, मयाऽपि तेन सह मैत्री कृता, तत्प्रभृत्यहं साक्षात् कृतानप्यपराधशतान् किमपि कथयामि किमपि करोमि किमपि कृतं किमपि वदामि / इत्थं तयोः कुमित्रयोः सङ्गादनेकेऽनर्थाः प्रादुर्भवन्ति, परं तान् उत्पद्यमानानेव पुण्योदयश्छिनत्ति, तं पुण्योदयोपकारमहं न जानामि / अथ समये कलाग्रहणायाऽहं महामतिकलाचार्यान्तिके पित्रा मुक्तः उक्तं च"वत्स ! कलागुरोस्त्वया प्रणामाऽभ्युत्थानादिविनय: कार्यो यथा शीघ्रं कलाप्राप्तिः