________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 नरकेशरिण एवं बुद्धिर्जाता- 'यदहं पुत्रीं गृहीत्वा विवाहार्थमत्रऽऽगतः रिपुदारणेन सह विवाहस्य वृत्तान्तः सर्वत्र प्रसिद्धि प्राप्तस्ततो यदि कन्यामदत्त्वैव गृहं यामि तदा तु एतेषामस्माकं चोभयेषामप्युपहासो लघुता च स्यादिति' विचिन्त्य प्रभाते मत्पितुः सविधं समागत्य नरकेशरिणोक्तं- "राजन्! अलं कलापरीक्षया, सकल-कलाविशारदस्य रिपुदारणस्य, ततः प्रगुणीक्रियतां विवाहसामग्री, उद्वाह्येते कन्या-कुमारौ" इत्याकर्णनाजात-प्रमोदेन नरवाहन-नृपेण प्रारब्धो महामहः, उद्वाहित-श्चाऽहम् / . रिपुदारणस्य अहङ्कारपारवश्यं, पत्नी-मात्रो: आत्महत्या __ अथ सुदायं दत्त्वा स्वपुरं प्राप्तो नरकेशरी सपरिच्छदः, अथ अहं नरसुन्दरीं लब्ध्वा स्वजनुः कृतार्थं मन्यमानो नवनवभोगान् विलसामि / एवमन्योन्य दृढ-प्रणयासक्तयोरावयो नाभोगभङ्गिभिः कानिचिद् वर्षाणि व्यतीयुः। अत्रान्तरे शैलराजेन मृषावाद प्रति भाषितं- "यदावयोः परमः मित्रं रिपुदारणस्तु साम्प्रतं नरसुन्दरीस्नेहासक्तो नाऽस्माकं स्मरत्यपि / ततो येन केनोपायेनाऽस्य नरसुन्दर्या सह स्नेहवित्रोटः स्यात् स उपायः क्रियते / तदा मृषावादेनोक्तं- 'अहं त्वेतत्कार्यचिन्तयन्नेवाऽस्मि / अथैकदा सुखगोष्ठयां क्रियमाणायां नरसुन्दर्या पृष्टं- "हे आर्यपुत्र! विवाहदिने सभायां कथं ते क्षोभः समजनि?" मयोक्तं- "तदा विद्यास्तु सर्वा अपि मच्चेतसि पर्यस्फुरन् परं सदसि सर्वजनसमक्षं स्त्रिया सह वदतो मे लाघवं स्यादिति ध्यात्वाऽहं मौनमालम्बित:" तदा नरसुन्दर्या मदभिप्रायं मत्वा पुनीलयोक्तं- "वरं स्वामिन्! अद्यैव रहसि मदने प्रकाशय किञ्चित् चमत्कारि सूक्तम् / " अथ तदवसरे शैलराजेन स्तब्धचित्ताख्यं विलेपनं मम हृदि दत्तं, ततो मयाऽहङ्कार वशात् पादप्रहारं दत्त्वा- “रे रे रंण्डे! स्वगर्वात् त्वं मां मूर्ख जानासि, तद् याहि यः पण्डितो भवति तमेवाऽङ्गीकुरू" इति बहुधा निर्भय॑ च निष्कासिता स्वावासात् नरसुन्दरी / अथ तया रुदत्या मम मातुर्विमलमालत्याः समीपे गत्वा गदितं मम कोप विलसितं, माताऽपि तामाश्वास्य दुःखार्ता मदन्तिकमागत्य मामुवाच "वत्स ! न युज्यते तव कुल-शील-गुणाढ्यायाः 'प्रियाया निरपराधावगणनम् / इयं तु त्वदेकचित्ता त्वद्विरहाऽसहा स्वजीवितं तृणीकरिष्यति तदिमामाश्वासय त्यज मानमित्यादि-" वाक्यैः पुनः प्रवृद्ध-गर्वेण मया माताऽपि कठोर वाक्यैरवगणिता पुनर्मातुरादेशात् नरसुन्दरी तत्राऽऽगत्य दीनवाक्यैः"हे प्राणनाथ ! हे जीवितेश ! क्षमस्व मेऽपराधं, पुनः कदापि इत्थमपराधं न करिष्ये" इत्यादि जल्पन्ती बाष्पोदकैः पादौ प्रक्षालयन्ती पादयोर्निपत्य मामनुनेतुं लग्ना, तथाऽपि सा मया पादेनऽऽहत्य दूरीकृता निष्कासिता च स्वगृहाद् बहिः /