________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 नन्दिवर्द्धनकुमार ! अयं विभाकरनृपः पितृ-मरणदिनादारभ्याद्ययावदत्यन्तं पितृविरहदुःखार्दितः क्षणमात्रमपि न रतिं लेभे / परं भवदागमनादतिप्रहृष्टमना अद्य पितृदुःखं विसस्मार, तदा विभाकरोऽपि साश्रुनेत्रः प्राह- "भ्रातः! पितृवियोगार्तस्य मे त्वमेवाऽधुना पितृकल्पश्चित्तालम्बनस्थानं, ततोऽद्यप्रभृति त्वयाऽत्रैवस्थेयम् / एतत् सर्वं राज्यादि परिपालय, अहं तु त्वदाज्ञाकरोऽस्मि इत्यादि तद्वाक्यानि स्नेहसान्द्राण्यपि मया वैश्वानरवशेन कपट-जल्पितानि मेनिरे, न पुनस्तद्गुणलवोऽपि मच्चेतसि प्रत्यभासि / अथ नानागोष्ठीरसेन दिवसोऽतिक्रान्तः, सञ्जाते च शयनावसरे सभां विसृज्यैक-पल्ल्यङ्केऽहं विभाकरश्च द्वावपि प्रसुप्तौ / यावद् विभाकरो निद्रामितस्तावता पूर्वोत्पन्नरोषात् खड्गेन तच्छिरश्छित्त्वा प्रणष्टोऽहं क्रमेणाऽटवीमुल्लङ्घ्य कुशावर्त्तपरिसरे व्रजन् तत्पुरलोकैदृष्ट्वा उपलक्षितो नन्दिवर्द्धनोऽयमिति, उक्तं च तैर्नृपाय, तदाकर्ण्य कनकचूडकनकशेखरौ मामनु समागत्य उचतुः- “भो नन्दिवर्धन ! केयं तवाऽवस्थेति?" मयाऽपि सर्वं पूर्ववृत्तं, भाषितं, तच्छ्रुत्वा कनकशेखरेणोक्तं- "यः क्रोध-हिंसानुगः स्यात् तस्यैवंविधैवावस्था स्यादिति, ततः क्रुधा ज्वलितेन मया कनकशेखरस्य कटिप्रदेशात् छुरीमाकृष्य यावत् हन्तुं प्रचक्रमे, तावता कयाचित् देवतया स्तम्भयित्वाऽम्बरीष-पल्ल्यां मुक्तोऽहं, अथ तेऽम्बरीषभिल्लाः पूर्वं मत्सेवकीभूताः मां दृष्ट्वा सादरं प्रणम्य सिंहासने निवेश्य कृताञ्जलय एकाकित्वकारणं पप्रच्छुः / उक्तं च मया यथावृत्तं, तैः शिरो धूनयित्वा अहह महदसमञ्जसजातमित्युक्तं, ततो जातकोपेन मया कस्यचित् कटीतटात् खड्गमाकृष्य निहतास्ते बहवः किराताः / अथैवंविधं मां उन्मत्तं विज्ञाय तैर्बहुभिः किरातैः सम्भूय हस्तात् खडं पातयित्वा नियन्त्र्याऽहं बहुधा यष्टि-मुष्ट्यादिभिः प्रहतः / पुनः क एनं हत्याकारिणं मारयतीति तैर्निशायां अटवीमुल्लङ्घ्य शार्दूलपुरोपान्ते मुक्तः। अथ सूर्योदये जाते इतस्ततः पश्यता मया महातिशयवान् स्वर्णपद्मोपविष्टः सुरसमूहसेवितो नित्यवैरैरपि सत्त्वैः शान्तीभूतैः सम्भूय समुपास्यमानो विवेकनामा केवली दृष्टस्तावता सपरिकरोऽरिमर्दननृपः समेत्य मुनिं नत्वोपविष्टः केवलिना देशनाऽऽरब्धा अहो भव्या! अनादौ संसारे जन्तो नधर्माप्ति-र्दुरापा ततस्तत्-सम्पदं लब्ध्वा यशाशक्ति तत्पालनोद्योगः कर्तव्यः' इत्यादि देशनां श्रुत्वा नृपेण पृष्टं_ "भगवन् मया स्वपुत्र्या विवाहकरणार्थं स्फुटवाक् जयस्थले प्रेषितोऽभूत् ततः परं तस्य कश्चिदपि समाचारो मया न लब्धः, तदा तच्छुद्ध्यानयनाय अन्ये सेवकाः प्रेषिताः, तैरागत्योक्तं-'यद् जयस्थलं सर्वं भस्मीभूतं परिसग्रामाण्यपि सर्वाण्युद्वसानि दृष्यन्ते इति तत् पद्मराजादयः सर्वे व गता भविष्यन्ति ? को वा पुरदाहकृत् ? ततः केवलिना