________________ 26 पण्डित श्री हंसरलविरचिते दूरस्थितो नियन्त्रितोऽहं राज्ञे दर्शित उक्तं च राजन् “नन्दिवर्धनोऽयं, अस्य द्वेषगजेन्द्रपत्नी- अविवेकिता प्रसूतेन वैश्वानरेण सह सख्यमस्ति तथा निःकरुणता-दुष्टाभिप्राययोः पुत्री हिंसा-नाम्नी अनेन परिणीताऽस्ति, ततो हिंसा वैश्वानरयोः पारवश्यादनेनैतनगरदाहादि-दुष्टमाचरितम्" इत्युदित्वा सर्वं मवृत्तं प्रकाशितं, पुनः नृपेण पृष्टं-स्वामिन् ! विवेककेवलिदेशना, कुटुम्बत्रयपरिचयः अस्य हिंसा-वैश्वानराभ्यां कियत्कालीनः सम्बन्धोऽस्ति ?" केवल्याह- "असंव्यवहारपुरादारभ्याऽनन्तकालीनः सम्बन्धोऽस्ति परम् अत्र भवे तु प्रत्यक्षतया दृश्यते / नृपः प्राह- "स्वामिन् ! पूर्वं त्वसौ शूरः पराक्रमी जितकाशीत्यादि-गुणवान् श्रुतोऽभूत् / ' केवल्याह- "पूर्वं त्वस्य पुण्योदयः सहायोऽभूत्, तदनुभावाद् विरूद्धाचरितमपि गुणायाऽभवत्, परं स्फुटवाक्मारणावसरे दूरीभूते पुण्योदये इमामवस्थां प्राप्तः' / पुनर्नृप आह- "स्वामिन् ! अन्यस्याऽपि कस्यचित् हिंसा-वैश्वनराभ्यां सम्बन्धो भविष्यति?" केवल्याह- "सर्वेषामपि संसारिजीवानां तारतम्येनेमौ सम्बन्धिनौ स्तः; यतो जीवमात्रस्य सर्वस्य त्रीणि त्रीणि कुटुम्बानि सन्ति, तद्यथा-क्षमा-मार्दवा-ऽऽर्जवा-ऽऽकिञ्चन्य-ज्ञानदर्शन-चारित्र-सत्य-शौच-तप:-सन्तोष-प्रभृतयः स्वाभाविकमान्तरङ्गं प्रथमं कुटुम्बं जीवस्य मुक्तिप्राप्तिहेतुः / तथा क्रोध-मान-माया-लोभ-राग-द्वेषा-ऽज्ञान-भय-शोकप्रभृति स्वाभाविकमान्तरङ्गं द्वितीयं कुटुम्बं, तच्च अभव्यानामनाद्यनन्तं भव्यानां चाऽनादिसान्तं संसारदुःखहेतुः / तथा मातृ-पितृ-स्त्री-पुत्रादयस्तृतीयं बाह्यकुटुम्बं प्रतिभवं नव-नवम् / अथ यः संसारिजीवो बाह्यकुटुम्बपोषणार्थं द्वितीयकुटुम्बेन सह मैत्री कृत्वा प्रथमकुटुम्बमवगणयति स भवदुःखपरम्परामनुभवति, परं यस्त्वासन्नभवसिद्धिको भवति स तु स्ववीर्योल्लासेन द्वितीयं तृतीयं च कुटुम्बं सर्वथा दूरीकृत्य प्रथमकुटुम्बं समादृत्य महानन्दपदभाग् भवति / ___अथैतदाकर्ण्य नृपः प्राह- "स्वामिन् ! प्रथमकुटुम्बं कथं मिलतिं?" केवल्याह"यः साधुवत् निर्दयीभूयाऽप्रमत्तः सन् प्रथमकुटुम्बेन द्वितीयं कुटुम्बं निहन्ति,- तद्यथाज्ञानाऽस्त्रेण महामोह-पितामहं निपातयति, वैराग्ययन्त्रेण रागं पीलयति, मैत्रीबाणेन द्वेषं भिनत्ति, क्षमाक्रकचेन क्रोधं विदारयति, तथा मार्दवखड्गेन मानं खण्डशो विधाय हस्तावपि न प्रक्षालयति, आर्जवदण्डेन मायां सञ्चूर्णयति, आकिञ्चन्यकुठारेण लोभं घातयति, तत्त्वदृष्टिचिप्पटिकया मदनं मत्कुणमिव मृद्नाति, ध्यानानलेन शोकं प्रज्वालयति, धैर्यकुन्तेन भयं विध्यति, तथा हास्य-रत्यरति-जुगुप्साः विवेकशक्त्या पिनष्टि, पञ्चापीन्द्रियाणि सन्तोषमुद्गरघातेन शातयति / इत्थं प्रथमकुटुम्बेन द्वितीयं