________________ 23 उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 पुण्योदय-साहाय्यात् यवननृपं निहत्य च जयलक्ष्मी लभे स्म / क्रमेण महोत्सवैः सार्धं कृतपुरप्रवेशो मातृ-पितृ-प्रभृति-स्वजनवर्गं प्रति मिलितः, प्रवर्धितश्च पुरमध्ये प्रमोदः, प्रसृतश्च मम विजयकीर्त्तिवादः सर्वासु दिक्षु / शृणु अगृहीतसङ्केते ! संसारिजीवो वक्ति -तदा यत् मया प्रवरसेन-समरसेन-द्रुम-यवन-प्रभृतयो महाप्रत्यर्थिनो निहता: यत् च रत्नवती-कनकमञ्जरों परिणीते, यद् दिगन्तप्रसर्पिविजयवादश्चाऽभवत् तत् सर्वमपि पुण्योदय-सान्निध्यात् जातं, परं मया पुण्योदयं विस्मार्य हिंसा-वैश्वानर-प्रसादात् सर्वमेतत् मयाऽभूदिति ध्यातं तेन दिने दिने हिंसा-वैश्वानरयोरत्यासक्तोऽभूवम् / अथैकदाऽहं सभावसरे मृगयां गतस्तदा पित्रा पद्मनृपेण विदुरं प्रत्युक्तं- “हे विदुर! याहि विलोकय अद्य नन्दिवर्धनः सभावसरे कथं नाऽऽयातः?" इति नृपादेशाद् विदुरेण बहिर्गत्वा समाचारं प्राप्य पुनरागत्य नृपं बभाषे- "देव! अयं नन्दिवर्धनस्तु नित्यमाखेटकार्थं याति / अद्य तु सभावसर एव गतोऽस्तीति श्रुत्वा जातखेदेन नृपेणाऽन्येषु बहुधा वारितोऽपि नाऽहं मृगयामत्यजं, पुनः पित्रा जिनमतज्ञमाकार्य पृष्टं- “यत् नन्दिवर्धनो हिंसां कदा त्यक्ष्यति?" तेनोक्तं-चित्तसुन्दरपुराधीश-शुभपरिणामराजस्य चारुतादेवी, तयोः पुत्रीं दयां परिणेष्यति तदा हिंसा दूरीकरिष्यति, परंता तु क्षमामिव कालादि-सामग्रीमवाप्य लप्स्यते नाऽधुना इत्यलं त्वत्खेदेन" इत्याकर्ण्य पिताऽपि शिक्षाविधौ मामुपक्षते स्म / नन्दिवर्धनेन कृता पित्रादीनां हिंसा, कारागृहे पूरणम् / अथैकदा पित्रा महामहेनाऽहं युवराजपदेऽभिषिक्तस्तदवसरे च शार्दूलपुरेशस्याऽरिदमननृपस्य स्फुटवचननामाऽमात्यः सभायामागत्य नृपं व्यजिज्ञपत्- "स्वामिन्! मद्राज्ञा त्वत्पुत्र नन्दिवर्धनगुणाकर्णनात् जातस्पृहेण स्वपुत्र्या मदनमञ्जुषाया नन्दिवर्धनेन सह विवाहं कर्तुमहं प्रेषितोस्मीत्याकर्ण्य प्रमुदिताः पित्रादयो यावत् तत् प्रमाणीकुर्वन्ति, तावता मया पृष्टोऽसौ स्फुटवचनो यत्- "इतः कियन्ति योजनानि भविष्यति शार्दूलपुरम् ?" तेनोक्तं- "योजनानां सार्धे द्वे शते / " तदा मयोक्तं- "क्रोशोने सार्धे द्वे शते," पुनस्तेनोक्तं- "पूर्णे सार्धे द्वे योजनशते' इत्यादि-विवाद-वचनैः प्रादुर्भूतवैश्वानर-प्रेरणया हिंसाप्रोत्साहितेन मया क्रोधान्धीभूय खड्गमाकृष्टं, तदा पुण्योदयस्तु मामयोग्यं निर्गुणं विज्ञाय दूरं ययौ, खड्गप्रहारेण हतस्तदा स्फुटवचनः, तद् दृष्ट्वा सहसा सिंहासनांदुत्थाय पिता मा मेति जल्पन् मत्पार्श्वमागतस्ततो मया ध्यातं अहो पिताऽपि मवैरिणः पक्षपातं करोति, तदेनमपि हन्मीति क्रोधात् मारितस्तातोऽपि / अत्रान्तरे कोलाहलश्रवणात् हा हेति जल्पन्ती नन्दा माता समागत्य मम हस्ते विलग्ना, साऽपि कृपाणघातेन विदारिता, तावता मत्परममित्रं शीलवर्धनस्तत्पत्नी मणिमञ्जरी,