________________ पण्डित श्री हंसरत्नविरचिते तथापि विज्ञातमच्चित्ताकूतेन तेतलिसारथिनाऽन्योक्तिभिः प्रबोधितोऽहं गृहमाय़ातः, परं सा रात्रिः कनकमञ्जरीविरहार्दितस्य मम नारकस्येव युगप्रमाणा जाता / अथ कथञ्चित् प्रभाते जाते प्रमुदितस्तेतली समागत्य मामित्युवाच "कुमार ! मा कुरु शोकं फलितं ते मनोरथैः, यतः कपिञ्जलानाम्नी गणिका कनकमञ्जर्याः धात्री आस्ते, तन्मुखात् मया ज्ञातं यत् त्वदालोकनप्रभृति नितान्त-शोकपीडितां कनकमञ्जरी म्लानपद्मिनीमिवालोक्य सखीमुखेन त्वय्यभिलाषिणी च विज्ञाय पितृभ्यामपि नन्दिवर्धनायेयं देयेति निश्चितमस्तीति / " अथ तदैव विमलनामाऽमात्यः समागत्य मां प्रणम्य च प्राह- "भो कुमार ! कनकचूडनृपो मन्मुखेनेति भाषयति यत् प्रथमं मणिमञ्जरी भवतो मित्रेण शीलवर्धनेन परिणीताऽस्ति परं सम्प्रति तस्या भगिनी कनकमञ्जरी भवते प्रदत्ता, तदङ्गीकरोतु पाणिग्रहणेन भवान्" इत्युक्त्वा शीघ्रं विवाह-सामग्री कृत्वा परिणायिता मे कनकमञ्जरी / अथाऽहं रत्नवती-कनकमञ्जरीभ्यां सहेप्सितभोगान् भुञ्जानः कियन्ति दिनानि तत्रात्यवाहयम् / नन्दिवर्धन: हिंसा-वैश्वानरौ न त्यजति / ... अथ विभाकरोऽपि घातजर्जराङ्गः कनकचूडनृपेणोपचारार्थं रक्षितोऽस्ति / तत्र तिष्ठताऽनेन सार्धं मम मैत्री बभूव / कियद्दिनातिक्रमे सज्जीभूतोऽसौ कनकचूडनृपेणातिसन्मानितः स्वदेशं ययौ / अथैकदा मां मृगयासक्तं विज्ञाय कनकशेखरो मदुपदेशाय * पर्षदि कनकचूडनृपमुखेन हिंसा-वैश्वनरदोषानकथयत्, तदाकर्णनमात्रात् प्रवृद्धकोपेन मया छुरीमाकृष्य प्रोक्तं- 'रे ! रे ! कनकचूड! रे रे ! दुरात्मन्! कनकशेखर ! युवां मम परमोपकारिणोहिँसा-वैश्वानरयोर्निन्दां कुरुथः परं यदि हिंसा-वैश्वानरौ नाऽभविष्यतां तदा युवामपि अद्य यावत् कुतोऽभविष्यतं ? आगम्यतामद्याऽपि बलावलेपश्चेद् दर्शयामि भवतोः पाण्डित्यम्" इति कोपकरालं मां वीक्ष्य सभाजनो भीत: सर्वोऽपि पलायितः प्रबलपुण्योदयं नृपं कुमारं च प्रत्यकिञ्चित्करोऽहं सरोषः स्वगृहमायातः / ततः प्रभृत्ययोग्योऽयमिति नृपादिभिरुपेक्षितः स्वगृह एव स्थितः, एवं कियत्सु वासरेषु गतेषु अन्यदा जयस्थलपुरादायातो दूतो मां नत्वा उवाच- "देव ! वङ्गाधिपतिर्यवनो नृपः प्रबलसैन्यमादायागतो जयस्थलं वेष्टयित्वा स्थितोऽस्ति, लोकस्तु दैवशरणो भूत्वा सर्वोऽपि दुर्गरोधे स्थितोऽस्ति, ततो मतिधन-बुद्धिविलासमन्त्रिभ्यां पितरमनापृच्छयैवाऽहं भवदाकारणार्थं प्रहितोऽस्मि / ततोऽतिसत्वरमेवाऽऽगन्तव्यं भवता क्षणार्धमपि नोचितो विलम्ब इति'' तत् वाक्याजातामर्षः कनकमञ्जरी-रत्नवत्यादि सर्वं स्वपरिजनमादाय कनकचूड-नृपादीनापृच्छ्यैव प्रस्थितः स्वपुरं प्रति, क्रमेण पुरोपान्तमागत्य रणाङ्गणे