________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 पुण्योदयसाहाय्यात् तत्-मुक्तान्यनेकप्रहरणानि वञ्चयित्वा क्षणमात्रेण निपातितो मया स लुण्टाकनायकः हते च तस्मिन् सर्वेऽपि ते चौराः निःस्वामिका मामेव स्वामित्वेन प्रपन्नाः जातश्च जयजयारवः, पुनर्मिलितं सर्वसैन्यम् / विमलाननाऽपहरणं, युद्धे कनकशेखरस्य विजयः अथाऽविच्छिन्न-प्रयाणैः कतिचिद् दिनान्ते प्राप्ता वयं कुशावर्तपुरं कुशलेन जाताऽस्मदागमनवृत्तान्तप्रमुदितः कनकचूडनृपः सपरिजनोऽभिमुखमागतः, कृतश्च महीयान् प्रवेशोत्सवः, प्रमुदिते च विमलानना-रत्नवत्यौ / अथ महामहपूर्वं कनकशेखरेण विमलानना परिणिन्ये, तदा रत्नवती कनकशेखरस्याऽभीष्टमित्रं मां विज्ञाय मयि कृतोद्वाहनिश्चया मया परिणिन्ये / अथ विवाहानन्तरं द्वितीये दिने विमलानना-रत्नवत्यौ द्वे अपि पुराद् बहिः क्रीडार्थं यावत् उद्याने गते स्तः तावत् पुरमध्ये किञ्चित् परचक्रं विमलानना-रत्नवत्यौ हत्वा यातीति महान् कोलाहलोऽजनि / तच्छ्रुत्वा कनकचूडनृपप्रभृतयः सर्वेऽपि वयं प्रबलसैन्यं लात्वा तमनुधाविताः श्रुतं च लोकमुखात्- यत् पूर्वं विमलानना यस्मै दत्ताऽभूत् स विभाकरनृपोऽतुलबलमानीय हरणं कृत्वा यातीति। अथोभयसैन्ययोः सञ्जातः सङ्गमः, प्रारब्धं रणम्, अथ तावत् विभाकरस्य मित्रं कलिङ्गाधिपतिः समरसेनाख्यः शस्त्रनिपातैः अस्मत्सैन्यं शतधाविभजन् ममाभिमुखं योद्धमागतः / स च मया हिंसा-वैश्वानरो-त्साहितेन खड्गघातेन निपातितः / अत्राऽन्तरे विभाकरस्य मातुलो बङ्गाधिपति र्दुमराट् कनकचूडनृपेण सह युद्धन् मयाऽन्तराले निपत्य सोऽपि कृतान्ततिथीकृतः / अथ विभाकरः कनकशेखरेण युद्धं कुर्वन् कनकशेखरकृतप्रहारार्दितो मूर्छामवाप्य भूमौ पपात, तत् सैन्यं तु सर्वं कान्दिशीकमितस्ततः पलायितम् अथ विभाकरं शीतोपचारैः सज्जीकृत्य कनकशेखरः प्राह- "अहो वीर ! साधु साधु ते शौर्यम् " ततः प्रगुणीभव पुनर्युद्धाय सम्यगद्य दोर्दण्डकण्डूमपनयाव इत्यादि, तत् निशम्य विभाकरः कनकशेखरस्य पादयोर्निपत्य आह- अहो महाभाग ! त्वयाऽहं रणे जितः, परं च मृतावस्थोऽपि सज्जीकृतस्ततस्त्वं प्राणदाता मे स्वामी, अहं त्वद्यप्रभृति तव सेवकोऽस्मीति / " __ अथ निवृत्तः समरः, प्रहर्षिताः सर्वे कनकचूडादयो मङ्गलनिःस्वनानि वादयित्वा विमलाननां कनकचूडनृपरथे रत्नवतीयुतो रथादिरूढः स्वसौधं प्रति यावद् वलितस्तावत् कनकचूडनृपाङ्गजा मलयमञ्जरी-कुक्ष्युद्भवा कनकमञ्जरीति नाम्नी स्वसौधाग्रगवाक्षस्था मया दृष्टा, तयाऽप्यहं दृष्टः अथ परस्परालोकनादावयोर्मियो मनसी स्नेहरसाविढे अभूतां,