________________ 20 पण्डित श्री हंसरत्नविरचिते प्रभावती-पद्मावत्यौ, तयोः कुक्षिजाते क्रमेण विमलानना-रत्नवत्यभिधे द्वे कन्यके स्तः, तयोर्मध्ये या विमलानना सा स्वमातुः प्रभावत्या भ्रातृव्याय कनकपुरेश-प्रभाकरनृपाङ्गजविभाकरनाम्ने बाल्ये दत्ताऽभूत्, ततः कदाचिद् विमलाननया कनकशेखरस्य गुणाः श्रुतास्तेन सा कनकशेखरे जातानुरागा सती पितरौ प्रति तद्विषयं स्वाभिप्राय ज्ञापयति स्म / तस्यास्तं निश्चयं मत्वा पितृभ्यामपि तथा प्रतिपन्नं, तदा रत्नवत्यपि विमलानना-स्नेहेन अहं कनकशेखरस्याऽभीष्ट-मित्रं कञ्चन वृणोमीति प्रतिज्ञातवती। अथ नन्दननृपेण ते द्वे अपि कन्ये बहुपरिच्छदेन सार्धं विवाहार्थं प्रेषिते क्रमेण कुशावर्त समागच्छत् इत्यादि तयोरागमन-वार्ता श्रुत्वा हर्ष-विषादाक्रान्तचित्तेन पित्रा कनकचूडनृपेण त्वदाकारणाय वयं प्रेषितास्ततः पितुः प्राणधारणार्थं विमलाननाविवाहार्थं च शीघ्रं तत्राऽऽगन्तव्यं त्वया, न युज्यतेऽधुना क्षणमपि विलम्बितुमिति तद्वाक्यात् समुत्साहितः कनकशेखरः पितरं पद्मनृपमापृच्छ्य निबिडप्रेम-सक्ततया मामपि सहाऽऽकार्य बहुपरिकरः कुशावर्त प्रति प्रस्थितः, कानिचित् प्रयाणान्यतिक्रान्तानि / __ अथ संसारि-जीवो वक्ति-हे अगृहीतसङ्केते ! अत्रान्तराले यत् ममाऽभूत्तदाकर्णय अस्त्यान्तरङ्गं रौद्रचित्तनगरं, तत्र दुष्टाभिसन्धिः नृपस्तस्य नि:ष्करुणताख्यदेवी, तयोः सुता हिंसानाम्नी कन्या / अथ पूर्वं तामसचित्त पुराधीशस्य महामोहाङ्गज-द्वेष-गजेन्द्रराजस्य पुत्री अविवेकिताख्या सगर्भा, केनचित् प्रयोजनेन रौद्रचित्तपुरमायाता सती दुष्टाभिसन्धिनृपगृहे एव वैश्वानराभिधं पुत्रं सुषुवे / स वैश्वानरस्तद्गृह एव पुष्टीभूतः क्रमेणाऽविवेकिताप्रेरणादागत्य मां मिलित इति तत् परिचयाद् वैश्वानरेण दुष्टाभिसन्धि-पार्श्वे हिंसानाम्नी तत्-कन्या मदर्थं याचिता / हिंसा-क्रोधप्रभावेण जीवस्य कुचेष्टा अथैकदा गुप्तवृत्त्या रौद्रचित्तनगरे मां समानीय परिणायिता मे हिंसा, वैश्वानरेण शिक्षितं चाऽस्या: 'प्रमोदोत्पादनार्थं त्वयाऽऽखेटकोऽनिशं सेवनीय' इति / तदङ्गीकृत्य प्रमुदितोऽहं हिंसा-वैश्वानरयोः प्रशंसां कुर्वन् नित्यं पापर्द्धिरसिको जातः / अथैवं मार्गे प्रचलतां अस्माकं विषमकूटः पर्वतः समासन्नः समजनि, तत्र पर्वतेऽम्बरीष-नामानो लुण्टाका वसन्ति, ते च पूर्वं कनकचूडनृपेण बहुशः पराभूताः सन्ति तवैरात् कनकशेखरमायान्तं विज्ञाय ते सर्वेऽपि सम्भूयाऽग्रे मार्गं रुद्धवा स्थिताः / अथ तै सह युध्यतः कनकशेखरस्य बलं भग्नं, तदवसरे वैश्वानरेण मम क्रूरचित्ताख्यं योगवटकं प्रदत्तं, तदनुभावेन हिंसया चोत्कर्षमारोपितोऽहं प्रवरसेननाम्ना लुण्टाकनायकेन सह योद्धं लग्नः।