________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 अनेके जनाः श्रावकत्वं प्रपेदिरे, ते च मयाऽकरदाश्चक्रिरे / अथ मत्-पितुः पुर एको दुर्मुखनामा सचिवोऽस्ति, मद्-वृत्तान्तादतिखिन्नेनाऽसहिष्णुना तेन राज्ञः पुरः प्रोक्तं'राजन् ! सर्वं राज्याधिकारं पुत्रे निवेश्य त्वं तु निश्चिन्तस्तिष्ठसि, परं त्वत्-पुत्रेण तु सर्वोऽपि पौरजनः कररहितः कृतः, इत्थं च कोशाभावे कथं राज्यस्थितिश्चलिष्यति ?' इत्याद्याकर्ण्य राज्ञा दुर्मुखं प्रत्युक्तं- 'रहसि गत्वा त्वया कुमारं प्रति शिक्षा वाच्येति / ' अथ तेनागत्य मां प्रत्युक्तं- 'यत् न युज्यते लोकानां करनिवारणमित्यादि / तदाकर्ण्य मयोक्तं- 'मन्त्रिन् ! किमेवं वदसि ? करदण्डगृहणादि तु अन्यायिजनेभ्य एव राज्ञा कर्तुं युक्तं, न पुनर्धर्मिन्यायिजनेभ्यः / यतो 'दुष्टस्य दण्ड: सुजनस्य पूजेति' राज्ञां धर्मः, इत्यादि-मद्वाक्यै-निरुत्तरीभूतो दुर्मुखो विलक्षः सन् 'कुमार ! मया तु तव धर्मस्थैर्यावलोकनार्थमित्थमुक्तं परं साधुः ते धैर्यमित्यादि'-कपटस्तुतिं कृत्वा यथागतं गतः। अथ ये मया करमुक्ताः कृताः सन्ति तान् स्वगृहे समाकार्य बहुधा भयं दर्शयित्वा स दुर्मुखो दुरात्मा तेभ्यो दण्डादिकं गृहीत्वा पुनस्तान् वारयति ‘रे रे ! यः कश्चन कुमारस्याऽग्रे पूत्करिष्यति तमहं बहुधा विडम्बयिष्यामीति' तद्-वाक्याद् भीतास्ते तुष्णीमेव तिष्ठन्ति / अथ तदुर्मुखस्य दुश्चरितं चतुर-नाम-दूत-द्वारा मया ज्ञातं चिन्तितं च यदुताऽसौ दुर्मुखो मदुपरि भूय मत् सम्मानितानपि श्राद्धान् दण्डयति तन्नूनमसौ पित्राऽप्यस्य कार्येऽनुमतो दृश्यते, तदस्मै कर्मकराय दुर्मुखाय किं क्रुध्यामि ? परं चेत् पिता मत्तोऽपि द्रव्यं बहु मन्यते, तत्-किमत्र स्थितेन मेऽकिञ्चित्करस्येति रोषं मनस्याधाय स्वपरिच्छदपरिवृत्तस्तातमनापृच्छ्य निर्गतोऽहं क्रमेणेहाऽगत इदं मे रोष कारणम्,' इति तत् सम्बन्धं श्रुत्वा मयोक्तं- "भ्रात: ! युक्तं कृतमेतत्, यतो मानिनां सर्वतोऽपि मानरक्षणमेव श्रेयः / " कनकशेखरस्य पितुः पार्श्वे गमनम्, मार्गे युद्धः विजयः / . ___ अथाऽन्यदा कनक चूडनृपस्य सुमति-वराङ्ग-के शरि-नामानस्त्रयोऽमात्याः सभायामागत्य नृपं कनकशेखरं च नत्वा नृपादिष्टासने उपविश्य कनकशेखरं प्रति इति व्यजिज्ञपन् 'भो कुमारशेखर ! भवतः प्रस्थानानन्तरं भवद्-वियोग-शोकाग्नि-दग्धेन कनकचूडनृपेण सखेदं त्वत्-कोपकारणं जिज्ञासता सर्वमेतद्-दुर्मुखस्य दुर्विलसितमिति कस्यचित् मुखादवगत्य सञ्जात-महानुशयेन दुर्मुखः सपरिजनः स्वदेशात् निष्कासितः, पश्चात् चतुरदूतवाक्यात् त्वामत्रागतं ज्ञात्वा, त्वद्-विरहासहेन पित्रा त्वदर्शनावधि भोजनस्य नियमो गृहीतः / पुनः अत्राऽन्तरे विशालानगर्यां नन्दननृपस्य द्वे पट्टराज्यौ