________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 मनीषिदीक्षामहोत्सवः, राजादीनां व्रतस्वीकारः / अथ द्वितीयेऽहनि पुरान्तश्चैत्येषु महापूजादिभिः अष्टाह्निका-महोत्सवः प्रारब्धः, एवं च क्रमागते मुहूर्त्तदिवसे हस्तिस्कन्धाधिरूढो राज्ञा स्वयं ध्रियमाणेनाऽऽतपत्रेण, वीज्यमानैश्च श्वेतवरचामरैः वाद्यमानै र्नानाऽऽतोद्यैः, परिपतद्भिः समन्ततश्चतुरङ्ग-चमूचक्रैः, ध्वज-तोरण-पुष्प-प्रकरादि-पुर-सुषमया च महर्द्धया विस्मय-स्तिमितेषु पश्यत्सु निखिल नागरिकनिकरेषु परमोन्नतिं नीयमाने च श्रीजिनशासने, उप्यमाने चाऽनेक-भद्रक-मन:स्सु बोधिबीजे, निर्मलीक्रियमाणे च सकलाईत्-सम्यक्त्वे, आनन्दाश्रुप्लुतलोचनैर्भव्यजनैरभिनन्द्यमानो मनीषी प्राप्तः प्रमोदशेखराभिधानचैत्यं, कृत्वा च तत्र देवार्चा सर्वर्द्धया समागतो गुर्वन्तिके, तत्रोन्मुच्य सर्वालङ्कारं व्युत्सृज्य च सर्व-संसार-ममत्वं गुरुमुखेन पञ्चमहाव्रतलक्षणं यतिधर्मं समाददे / ___ अथोपविष्टे नृपादि-सकल-सभा-जने तस्य संयम-दृढीकरणाय गुरुभिर्हितशिक्षा ददे / तद्यथा- "अहो भव्या ! अनन्तसुखास्पदं चारित्रमार्ग प्राप्य कः संसारपङ्के निमज्जति यथा साम्राज्य-लाभे कः किङ्करत्वमभिलषति ? ततः सर्वार्थ-संसाधकं चारित्रधर्ममवाप्य सर्वशक्त्या तत्र यतनीयम्' इत्यादि-शिक्षां श्रुत्वा सुबुद्धिमन्त्री नृपं प्रत्याह- "राजन् ! अहो दुर्लभसङ्गोऽयं यत् प्रबोधरति-सदृशा ज्ञाननिधयो गुरवः मनीषिसदृशाः सहायाः, आवयोरपि धर्मकरणोचित-वयः, सुदुर्लभं हि पुनः पुनर्नरत्व-धर्मश्रुति-श्रद्धासामर्थ्यलक्षणं धर्माङ्ग-चतुष्टयं, ततो यदि संवेग-निर्वेदौ किमपि भुजालम्बं कुरुतस्तदा आवां अपि संयम-मार्गमाश्रयाव इति मन्त्रि-वचसा प्रवर्द्धितोत्साहो नृपः सुलोचन-कुमारं स्वराज्ये विन्यस्य सप्तक्षेत्र्यां धनं व्ययीकृत्य मदनकन्दली-देव्या सुबुद्धिमन्त्रिणा च सह श्रीगुरुणां पार्श्वे व्रतं जग्राह / " ___ अथ एतद्-वृत्तान्त-दर्शनात्-प्रवृद्ध-संवेग-निर्वेदो मध्यमबुद्धिरपि व्रतमाददे / अथ तेषां चतुर्णामपि शिक्षामाह गुरुः- "अहो महाभागा ! यः कुमित्रसङ्गं कुरुते, स बालवद् दुःखपरम्परां लभते, यश्च पण्डितवचसि प्रवर्त्तते स मध्यमबुद्धिवत् कालविलम्बेनाऽपि धर्म लभते, ये च मनीषि-प्रायाः उत्तम-पुमांसः ते तु स्वाभाविक-स्वबुद्धयैवाऽनर्थकारणं मत्वा दुर्जनसङ्गं परिहत्य जगतः प्रशंसास्पदं भवन्ति, ततो हितैषिभिर्युष्माभिः कुसङ्गत्यागेन सत्सङ्गतिः कार्या, येनेह-परत्र च कल्याणभाजो भवेत्" इत्यादि, ततो बहुकालं यावत् सदागम-विधिना चारित्रं प्रपाल्य केवलमुपायं मुक्तिं प्राप्तो मनीषी, अन्ये चत्वारोऽपि देवलोकं गताः / बालस्तु पापमित्रसाच्चिरं कुयोनिषु दुःखपरम्परां प्राप्तः इति स्पर्शन-कथानकं समाप्तम्।