________________ पण्डित श्री हंसरत्नविरचिते संयमाऽपरं नाम, तत् तु मद्विधैर्दुर्वहं, ततः श्रावकधर्म उपदिश्यतां मह्यं," तदा राज्ञाऽपि श्रावकधर्मः पृष्ट, गुरुणा च सविस्तरं सम्यक्त्वमूल-द्वादशव्रतरूपः श्रावकधर्म उक्तः, राज्ञा मध्यमबुद्धिना च गुरुमुखेनाऽङ्गीकृतः / / साधूनां द्रव्यस्तवे आदेशाभावः, अनुमोदनैव / ___ अथ यावद् गुरवो मनीषिणे दीक्षां ददति तावद् राज्ञोक्तं-"स्वमिन्नस्य महात्मनो दीक्षा-महोत्सव-करणे मम मनोरथो महानस्ति, अतो भवदाज्ञा भवति चेत् तदाऽहं महोत्सवं कुर्वे, इति तद् वचसा गुरवो मौनमाधाय तस्थुः, तदा सुबुद्धिमन्त्रिणोक्तं- राजन्! महोत्सवस्तु द्रव्यस्तवस्वरूपस्ततः साधवस्तदादेशं न ददति, केवलं तदनुमोदनमेव कुर्वन्त्यतो नाऽत्र विलम्बः कार्यः / अत्राऽर्थे मनीषी एवाऽभ्यर्थनीयो, राज्ञा प्रणम्य मनीषिणे स्वभिलाष: कथितः, मनीषिणा महोत्सवमनिच्छताऽपि अस्य महाभागस्येच्छाभङ्गो मा भूदिति विचिन्त्य प्रतिपन्नं तद्वचनम् / / ___ अथ राज्ञा महाडम्बरेण देवार्चा कारिता, ततो मनीषिणं स्कन्धे निवेश्य स्वयं छत्रधारको जातः / ततो दीयमाने महादाने, वाद्यमानेषु सर्वाऽऽतोद्येषु महानन्दविस्मयस्मेरलोचनेषु पौरेषु पश्यत्सु महाडम्बरेण स्वगृहमानीतो मनीषी, तदाऽऽगमने च मुक्ताश्चिरनिगड-बद्धा जनाः, कृताश्चाऽनृणा नगरनिवासिजनाः, सम्मानिताश्च साधर्मिकाः / अथ मदनकन्दल्या यथाविधि स्नापितो धृतमहाऱ्यावस्त्रालङ्कारमाल्यो विविधभोज्यताम्बूलादिभिः सत्कृतो मनीषी यावत् तत्राऽऽस्ते, अत्राऽन्तरे राजा सुबुद्धिं प्रत्याह"मन्त्रिन् ! धन्योऽयं मनीषी महानुभावः, यो गुरुवचसा संसारासारत्वं विज्ञाय चारित्रमाद्रियते / " सुबुद्धिराह- "स्वामिन् ! ये तथाविध-लघुकर्माणो भवन्ति तेषामियं सामग्री सम्पद्यते"। नृपेणोक्तं- "यद्येनं स्त्री-धन-राज्यादिना येन केनोपायेन प्रलोभ्य कियन्ति दिनानि गार्हस्थ्ये स्थापयामः तदाऽहमपि राज्यादि-चिन्तां विधायाऽनेन साकं दीक्षां गृह्णी याम्" / इति श्रुत्वा पुनमन्त्री जगाद- "राजन् ! अयं उत्तमपुरुषः कामभोगादिनिष्पिपासः संसारं तृणीयति, कथमसौ प्रलोभ्यते ? अयं तु त्वत्-प्रार्थनाभङ्गभयादेवेयन्तं कालं प्रतीक्षितः, ततो न युक्तमस्य महात्मनो दीक्षान्तरायकरणम्, इति मन्त्रि-वचोऽङ्गीकृत्य राज्ञा सिद्धार्थनामा नैमित्तिक आकारितः पृष्टश्च दीक्षा-मुहूर्तम् / नैमित्तिक आह- "राजन् ! इतो दिनात् नवमे दिने शुक्लत्रयोदश्यां शुक्रवारे उत्तराभाद्रपदनक्षत्रे शिवयोगे वृषभलग्नोदये निरवद्यं मुहूर्तमस्ति" / इति तद्वचः प्रमाणीकृत्य हृष्टेन राज्ञा महादानपूजादिभिः सत्कारयित्वा विसृष्टः स नैमित्तिकः। /