________________ 15 उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 तद्वशाद् दुष्टो जातः / तथा अकुशलमालाऽस्य माता, तस्याः प्रेरणात् मूढोऽयं साक्षाद् वैरिभूतं स्पर्शनमेनं मित्रीयति / पुनः राज्ञा पृष्टं- "स्वामिन् ! भवद् देशनयाऽपि नाऽयं प्रबुद्धस्तत्कथम्?'' गुरुराह- "राजन् ! त्रिलोकीपूज्यानां तीर्थकृतां समवसरणे नित्यविरोधिजीवानामपि वैराण्युपशाम्यन्ति, परं निरुपक्रमनिबिड-कर्माणो ये जीवास्ते तु देशना-शतैरपि न प्रतिबुद्धयन्ते, तदत्र किं चित्रं?" तदा सुबुद्धिमन्त्रिणोक्तं- "भगवन्! सत्यमेतत्, यस्य सिद्धान्तवचसि निश्चयः स्यात्, स तु ईदृग्विध-बालप्रमुख-वृन्तान्तं विलोक्य नाऽऽश्चर्यं लभते' / पुनः राज्ञा पृष्टं-"भगवन् ! भवदने स्थित्वा धर्मसभायां कथमेनं हन्मि? अतोऽधुना तु मया मुक्तः परम् अग्रे किमस्य भावीति?" तदा गुरुर्बभाषे"राजन् ! इतः प्रणष्टो भ्रमन् कोल्लाक-सन्निवेशान्तिके एकस्मिन् सरसि स्नान्ती श्वपाकस्त्रियं वीक्ष्य, तद्भोग-वाञ्छया विकलीभूतः तस्यां बलात्कारं करिष्यति, वृक्षाद्यन्तरितस्तत्पतिः तदाकर्ण्य तत्राऽऽगत्य चैनं हनिष्यति, ततो मृत्वा बालोऽयं नरकादिषु चिरं कष्टकदर्थनाः सहिष्यतीति" श्रुत्वा पुनर्नृपो जगौ-भगवन् ! बालसम्बन्धिनौ एतौ अकुशलमाला-स्पर्शनौ क्व यास्यतः?' गुरुराह- "पुनस्तथाविधसंसारिजीवानाश्रित्य स्थास्यत इति / - अप्रमादयन्त्रम् राजोचे- "स्वामिन् ! कथमेतौ सर्वथा दूरं व्रजेताम् ?'' गुरुभिरुक्तं- "यदा अप्रमादयन्त्रे निक्षिप्य पील्यते तदा वियुज्येतां," राजाऽऽह- "किं तदप्रमादयन्त्रं ?" गुरुराह- "शृणु तत्स्वरूपम्, हिंसा-मृषावाद-स्तेयाऽ ब्रह्म-परिग्रहाणां सर्वथा वर्जनं, धर्मोपकरण-देहादावपि ममत्वत्यागः, रात्रिभोजनवर्जनं, संयम-यात्रार्थं विशुद्धोञ्छादानं, समितिपञ्चक-गुप्तित्रया-ऽवहितत्वं, नानाभिग्रहधारित्वं, कुमित्र-सङ्ग त्यागः, औचित्याऽनतिक्रमः, लोकप्रवाहानपेक्षा, गुरुजनबहुमानः, गुरु निर्देशपारतन्त्र्यं, सिद्धान्तश्रवणं, द्रव्यादिपदार्थेषु धैर्यावलम्बनं, सद्यश्चित्तविस्रोतसिका-निवृत्तिनि:सङ्गता, परमात्मध्यान, योगाभ्यासः देहात्मनोर्भेदविज्ञानं इत्याद्यनेकावयवोपलक्षितं अप्रमादयन्त्रमभिधीयते / " ___ अथैतदाकर्ण्य मनीषी गुरुं प्रत्याह- "स्वामिन् ! तदप्रमादयन्त्रं मह्यं प्रसादीक्रियताम्,'' इत्याकर्ण्य नृपो मनीषिमुखं विलोक्य गुरुं प्रपच्छ- "भगवन् ! कोऽसौ ?" गुरुराह- "यथा त्वमत्र नगरे बाह्यो राजाऽसि, तथा त्वत्तोऽप्यधिकबलवत्तमः क्षणार्द्धन त्वद्राज्यमपहर्तुं क्षमः, कर्मविलास-नामाऽन्तरङ्गनपोऽस्ति, तत्पट्टराज्ञी शुभसुन्दरी, तयोः पुत्रोऽयं मनीषी दीक्षां याचते / " अत्राऽन्तरे मध्यमबुद्धिर्जगाद- "भगवन् ! अप्रमादयन्त्रं