________________ पण्डित श्री हंसरत्नविरचित तान्यवगणय्येन्द्रिय-पोषं न विदधते, ते चोत्तमाः।" अत्र मनीषी दध्यौ-'ईदृग् विधस्त्वहं, यन्मया स्पर्शनस्य मूलशुद्धिरानायिता, महोमोह-सैनिको मत्वा परिहृतश्चेति' / पुनर्गुरुराह"ये तु गुर्वादि-वाक्यात् स्पर्शनादीन्यधमानि श्रुत्वाऽपि सन्दिग्ध-मनसो लोकेषु च स्पर्शनादि-सङ्गजनित-दुर्विपाकान् दृष्ट्वा, पश्चात् प्रतीत्य तत्-सङ्गत्यागेनेन्द्रियजयाय . यतन्ते ते तु मध्यमाः"। ___ अत्र मनीषिविमर्श ‘एवंविधस्तु मझाता मध्यमबुद्धिः, यत् स पूर्वं मद्वाक्ये सन्दिग्धमनाः, पश्चाद् बालस्य स्पर्शनसङ्गजा: कदर्थनाः संवीक्ष्य स्वयं चाऽनुभूय प्रबुद्धः तत्सङ्गं परिजहारेति / ' . बालस्य कुचेष्टा पुनगुरुरूचे- “यस्तु हीनसत्त्वः स्पर्शनादीनां दुर्विपाकान् विलोकयन्ननुभवन्नपि तत्सङ्गं इन्द्रिय-पोषं च न जहाति, स जघन्यः," इति श्रुत्वा मनीषिणा ध्यातं, 'यदेवंविधस्तु मद्भाता बालो यदित्थं कदर्थनानुभवेऽपि स्पर्शन-सङ्गेच्छा न जातु जायतेऽस्येति / ' अथ तदवसरे धर्मश्रवणैकचित्ते नृपादिसकलसभाजने कौतुकाऽऽयातो बालो मदनकन्दलीरूपाक्षिप्तो नखशिखाऽवधि-तदङ समालोकन-परश्चिरं तस्थौ / तेन देशनाया अक्षरमात्रमपि न स विवेद। अत्राऽन्तरे शत्रुमर्दननृपस्य सुबुद्धिर्नामाऽमात्योऽतिधर्मात्मा गुरुं पप्रच्छ- "भगवन् ! किमेषां चतुर्णा पुरुषाणां भेदकारणम् ?'' गुरुराह- "य उत्कृष्टतमः स तु सर्वेन्द्रिय-जयं कृत्वा केवलं मोक्ष-पदे प्रवृत्तस्ततोऽयं भिन्न एव, परं जघन्यमध्यमोत्कृष्टानां तु कर्मवैचित्र्यं भेदकारणम् / तद्यथा-त्रयाणामप्येषां कर्मविलासो राजा जनकः कर्मणश्च या शुभपरिणतिः सा शुभसुन्दरीत्युच्यते, सा च उत्कृष्ट-मनुष्यस्य जननी, तथा या शुभाऽशुभमिश्र-कर्मपरिणतिः सा सामान्यरूपा राज्ञी मध्यम-पुरुषस्य जननी उच्यते / इति गुरु वाक्यमाकर्ण्य मनीषी- 'अहो ! गुरुभिरेतदस्म-च्चरितमेवोक्तमिति' यावद् विमृशति, तावत् स्पर्शनाऽकुशलमालयो: प्रेरणा परवशो बालो राजभयमविमृश्य सर्वलोकलज्जामवगणय्य कामान्धो मदनकन्दलीमभिधावितः, तं दृष्ट्वा लोकैः कोलाहलः कृतः, राज्ञा च कोपकलुषदृशावलोकित: समुपलक्षितश्च 'अरे ! सोऽयं दुरात्मेति' ध्यात्वा सक्रोधं हुङ्कारः कृतः, तदाकर्णनात् जातोत्कम्पः प्रणष्टो बालः कतिचित् पदानि गत्वा गतिभङ्गवशाद् गन्तुमक्षमो भुवि पपात / तस्याऽधमचरित्रं दृष्ट्वा मनीषिमध्यमबुद्धि लजितौ / अथ तदा बालस्य देहात् निःसृत्यैकः पुमान् समीपे स्थितः, राज्ञा गुरुः पृष्टः- "भगवन् ! सर्वलोकसमक्षं किमनेनेत्थं दुराचरितं ?" गुरुराह- "राजन् ! अयं बालस्तु स्वभावेन शुभात्मा, परं अस्य शरीरात् निर्गतोऽयं पुमान् स्पर्शन-नामा