________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 न सेवते ?' इत्यूचुः / इति तेषां परस्परालापर्मया ज्ञातो भवतोर्वृत्तान्तस्ततो मया पितुः कर्मविलासराजस्य पुरः कथितश्च, पित्राऽप्युक्तं कियन्मात्रमेतद् बालस्य कष्टम् ? एनं स्पर्शन-सङ्गापराधात् कष्टकोटिभिरहं विडम्बयिष्यामि इत्यादि-मनीषिवार्ताऽऽ-कर्णनात् प्रबुद्धो मध्यमबुद्धिः, सर्वथा बालस्य सङ्गं तत्याज / स्पर्शासक्तस्य बालस्य कदर्थना अथैवं कियद् दिनाऽतिक्रमे मदनकन्दलीवियोगाऽऽतुरो बालः प्रथमनिशायां केनचिदप्यदृष्टप्रचारो राजमन्दिरान्तः प्रविश्य राज्ञः पल्ल्यङ्के निविष्टः, मदनकन्दली तु विभूषा-करणार्थं गर्भगृहान्तः प्रविष्टाऽस्ति / अत्राऽन्तरे शत्रुमर्दननृपः सभां विसृज्य तत्राऽऽयातः, स च तथाविधाऽपराधिनं बालं वीक्ष्य प्रोद्भूत-चण्डकोप: कीनाशकिङ्करप्रायेण विभीषणाख्य-स्वसेवकेन तं लोहयन्त्रैर्बन्धयित्वा नारकवत् समग्रां रात्रिं यावत् व्यडम्बयत् / प्रभाते खरपृष्ठमारोप्य नगरमध्ये चुतरशीतिचतुष्पथेषु परिभ्राम्य गलपाशं दत्त्वा कुत्रचिद् वृक्षशाखायां बद्धः, तस्य तथाविधाऽवस्थां दृष्ट्वा पौराः सर्वे हृष्टाः, "अहो! दुरात्मनोऽस्य बालस्येयमेवावस्था समुचितेति" / चतुष्प्रकारमनुष्यवर्णनम् / अथ स्व-स्व-स्थानं गतेषु सर्वलोकेषु भवितव्यता-वशात् पाशस्त्रुटितः, भुवि पतितो बालः क्षणेन लब्ध-चेतनः प्रच्छन्नवृत्त्या गृहमायातो राजभयाद् गृहान्तर्निलीय तिष्ठति। अथ कियदिनातिक्रमे तत्र पुरे चित्तविलासोद्याने प्रबोधरतिनामाऽऽचार्यः समवासार्षीत्। तद्-वन्दनार्थं राजा पौरजनसहितः समागतः / शुभश्रीप्रेरणात् मनीषि-मध्यमबुद्धि अपि तत्राऽऽग़तौ / बालोऽपि नैकस्त्रीणां विलासादि-प्रेक्षा-लालसस्त-त्राऽऽयातः / अथाऽऽचार्येण देशनाऽऽरब्धा-"अहो भव्या ! अनादि संसारे दुःष्प्रापं नरत्वं प्राप्य निःशेष-दुःख-समुत्पत्तिस्थानानि स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्रेन्द्रियाणि निर्जित्य एकान्त-हिते धर्मे यतध्वम् / यत इन्द्रियजय एव परमो धर्मः' इत्यादि श्रुत्वा राज्ञा पृष्टं "भगवन् ! दुर्जयेन्द्रियजेतारो जगति भविष्यन्ति केऽपि ?'' गुरुरूचे- "सन्ति केऽपि / यतो जगति चतुर्विधा मनुष्या जघन्य-मध्यमोत्कृष्टोत्कृष्टतमभेदात् / तत्र ये उत्कृष्टतमास्ते सदागम-प्रसङ्गात् सन्तोषेण समं मैत्री कृत्वा स्पर्शनादीनि कटुकविपाकानि विज्ञायेन्द्रियाणि विजेतुं प्रक्रमन्ते / '' एतदाकर्ण्य मनीषिणा विमृष्टं स भवजन्तुरुत्कृष्टतमः। येन सदागम-सन्तोषाभ्यां सह मिलित्वा स्पर्शनं दूरे निरस्य स्वार्थसाधित इति / ' 'पुनर्गुरुभिरुक्तं- "ये तु स्पर्शनादीनां मूलशुद्धिं विज्ञाय महामोहसैनिकान् मत्वा,