________________ 12 पण्डित श्री हंसरत्नविरचिते समुत्पतित: बालस्याऽऽक्रन्दारवेण दुःखितमना मध्यमबद्धिः खेचरेऽकिञ्चित्-करोऽपि तत्पृष्ठे चलितः / विद्याधरस्तु क्षणाद् दृष्टिपथमतीतः, तथापि अग्रतः प्रचलतोऽस्य महाटवी आयाता / तत्र भ्रमता क्वाऽपि बालशुद्धिर्न लब्धा, परं क्षुत्-तृड्-बाधितेन तेनैकः कूपोऽदर्शि, तस्मिन् कूपे यावद् दुःखार्दितो झम्पां दातुं प्रवृत्तस्तावत् तत्राऽऽयातेनैकेन नन्दन-नाम्ना नरेणाऽऽगत्य निषिद्धः पृष्टं च दुःखकारणम् / मध्यमबुद्धिना बालहरणादि-सर्वं कथितम् नन्दनेनोक्तं "अत्र निकटवर्त्तिनगरे हरिश्चन्द्रो राजाऽस्ति, तस्य रतिकेलि-नामा विद्याभृद् वयस्योऽस्ति, तेन राज्ञः शत्रुविध्वंसिन्येका क्रूरविद्या दत्ताऽस्ति तां च षण्मासान् यावत् साधयित्वा, इदानीं तेन विद्याभृता एकं पुमांसमानाय्य तन्मांसशोणितैर्नृपः प्रेतवने स्थितो देव्यग्रे आहुतीर्दत्ते / एवं कुर्वतोऽस्य सप्त-दिनानि जातानि, एकं दिनमवशिष्यते, स पुमान् राज्ञा मम समर्पितोऽस्ति / किं ज्ञायते तवैव भ्राता भविष्यति इत्युक्त्वा नन्दनेनाऽग्रे गत्वा मृतप्रायः पुमान् मध्यमबुद्धये दर्शितः, दृष्ट्वोपलक्षितो बालोऽयमिति तेन याचितश्च नन्दनस्तन्मुक्तिं, नन्दनेनोक्तं अद्याऽप्येकदिनाऽवधि अस्य प्रयोजनं विद्यते, परं किं कुर्वे तव दाक्षिण्याद् दत्तोऽयं, ततो गृहीत्वैनं याहि शीघ्रं, नृपो द्रक्ष्यति चेत् तदा तव मम चाऽनिष्टं भविष्यतीति'' तद्वाक्यं प्रमाणीकृत्य बालं स्कन्धे कृत्वा वेगाद् वलितो मध्यमबुद्धिः / क्रमेण स्वपुरं स्वगृह चाऽऽयातः / - मध्यमबुद्धिना बालस्य त्यजनम् तत्र च भेषजाद्यनेकोपायान् कृत्वा सजीकृतो बालः, पुनरपि भाषितोऽनेन "भ्रातः! त्वया महाकष्टमनुभूतं, ततोऽद्य प्रभृति महानर्थभूमिः परस्त्रीसङ्गेच्छा कदापि न कार्या, तच्छ्रुत्वा क्रोधाऽरुणो भूत्वा बालः प्राह- "अहो! मूर्ख ! त्वमपि मनीषिणः पक्षपाती असि / कस्त्वां शिक्षां पृच्छति ? मया कष्टनिवारणार्थं कदा त्वमाकारित: ? अहं तु मदनकन्दलीं विना जीवितं विषतुल्यं गणयामी'' त्यादि-वाक्यैर्भर्सितो मध्यमबुद्धिर्दध्यौस्पर्शनकुमित्र-प्रेरितोऽयं बालो दुरात्मा जातोऽतो न सङ्गति-करणार्ह इति बालं मुक्त्वा मनीषिसमीपं गतः, बालस्य वृत्तान्तस्तस्मै कथितः / तदा मनीषिणोक्तं - सर्वमेतदहमपि वेद्मि, यतो यदा विद्याभृता बालो हृतो, बालेन त्वया च पूत्कारः कृतस्तदा पौराः सर्वे जागरिता: परस्परं कथयामासु र्यदुत 'येन बालो हृतस्तेन लोकोपकारकारिणा समीचीनं कृतं, यदि पुनरसौ दुरात्मानं बालं हन्ति, तदा तु अतीव भव्यं भवति / ' केचिच्च मध्यमबुद्धिस्तु निर्दोषोऽस्ति, परं दुरात्मना बालेन सङ्गतो वृथा कष्टं भुनक्ति' इत्याहुः, केऽपि तु 'सत्यागेन सत्सङ्गतिर्विधेयेति लोकोक्तिं विदन्नपि बालसङ्गं विहाय मनीषिणं कथं